India Languages, asked by vedant1258, 2 months ago

प्रातःभ्रमणम्
प्रातःभ्रमणम् अतीव स्वास्थ्यप्रदं भवति। अस्मिन् समये शुद्धः पवन: वहति। सर्वत्र वातावरणं शान्तिप्रदं,
मनोहरम् आह्लादकरं च भवति। सूर्यस्य किरणाः अनुपम सौन्दर्य प्रसारयन्ति। अनेके जनाः सूर्योदयात् पूर्व
शय्यां त्यक्त्वा भ्रमणाय गच्छन्ति। केचन जनाः उद्यानं गत्वा व्यायाम कुर्वन्ति।
प्रात:भ्रमणेन अनेके लाभाः अपि सन्ति। यथा-जनाः स्वकार्याणि समयेन कर्तुं शक्नुवन्ति। शरीरे
आलस्यस्य नाशं स्फूर्त्याः च सञ्चारं भवति। चित्ते सदैव प्रसन्नता वर्तते। मधुमेहरोगग्रस्तेभ्यः जनेभ्यः तु
प्रात:भ्रमणम् औषधिः सदृशं वर्तते। ते प्रतिदिनं प्रात:काले भ्रमणाय गच्छन्ति स्वास्थ्यं च विन्दन्ति। एतदर्थम्
इयं वेला अमृतवेला अपि कथ्यते। अतः अस्माभिः प्रात:भ्रमणम् अवश्यमेव कर्तव्यम्।​

Answers

Answered by amarksma
1

Explanation:

are you in class 11 bhaiya ?

Similar questions