Hindi, asked by kunal00761, 4 months ago

पृथिवी रविं परितः भ्रमति। अस्याः भ्रमणेनैव एकस्मिन् वर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्त:, शिशिरश्च इमे
षड् ऋतवः भवन्ति। शिशिरस्य पश्चात् फरवरीमार्चमासयो : वसन्तः ऋतुः आगच्छति। अस्मिन् ऋतौ सूर्यस्य रश्मयः
मनाक् उष्णाः भवन्ति। एतस्मात् कारणात् अस्मिन् ऋतौ न अतिशीतं न च अत्युष्णं भवति। अयमेव हेतु: यत् सर्वेषु
ऋतुषु एषः ऋतुः सर्वेषां प्रियतमः वर्तते। अस्य ऋतो: ऋतुराजः, मधुमासः, कुसुमाकर इति अनेकानि नामानि सन्ति।
अस्मिन् ऋतौ सर्वतः वृक्षेषु नूतना: पल्लवा: रम्याणि च पुष्पाणि उद्भवन्ति। सकला धरा अभिनवैः परिधानैः इव
सज्जिता भवति। आम्रवृक्षोऽपि नूतनै: पल्लवै: नूतनाभि: च मञ्जरीभिः युक्तो भवति। अस्य शाखासु स्थित्वा कोकिल:
पञ्चमेन स्वरेण मधुरं गायति। अस्य मधुर : स्वर: जनानां चित्तं हरति। युवतयः केशेषु पुष्पाणि धारयन्ति। ताः प्रसन्नाः
भूत्वा इतस्ततः भ्रमन्ति। मधुकरा: अपि पुष्पेषु स्थित्वा पुष्पाणां रसं पिबन्ति गुञ्जन्ति च।
अस्मिन् ऋतौ उद्यानानां शोभा अतीव रमणीया भवति। विकसितानि चित्रवर्णानि पुष्पाणि परितः जनानां चित्तम्
आहूदितं कुर्वन्ति। अनेके संगीतकार्यक्रमाः सांस्कृतिककार्यक्रमाश्च भवन्ति। जना: एतेषु कार्यक्रमेषु आगत्य प्रसीदन्ति।
माघमासस्य शुक्ल पक्षे पञ्चम्यां तिथौ स्थाने स्थाने वसन्तपञ्चमी महोत्सवः समायोज्यते। वसन्तपञ्चम्यां जनाः
वस्त्राणि धारयन्ति पीतं च ओदनं खादन्ति। बाला: अस्मिन्नेव दिवसे सरस्वतीपूजां कृत्वा विद्याध्ययनस्य आरम्भ
कुर्वन्ति।
ग्रामे ग्रामे अनेकेषु स्थानेषु कृषका: इथूणां रसेन गुडस्य शर्करायाश्च निर्माणं कुर्वन्ति। जना: इथूणां रसम् पीत्वा
तृप्तिमनुभवन्ति। क्षेत्रेषु सर्वतः सर्षपस्य पादपाः सकलां धरां पीतवर्णां कुर्वन्ति। एवम् एषः ऋतुराजः सर्वान् जनान्
रञ्जयति सर्वेभ्यश्च अत्यन्तं रोचते।​

Answers

Answered by jayshrimanker1756
0

Answer:

what i have to do in this question

first tell that

Similar questions