Hindi, asked by sahujharana1987, 7 months ago

परोपकार पर निबंध इन संस्कृत ​(300 words)

Answers

Answered by ayushisagar1000
3

Answer:

प्रस्तावना

परषाम् उपकारः परोपकारोऽस्ति। अन्येभ्यो मनुष्येभ्यो जीवभ्यो वा तेषा हितसम्पादनार्थ यस किंचिद् दीयते, तेषां साहाय्यं वा क्रियते, तत् सर्वं परोपकारशब्देन गृह्यते।

परोपकारस्य लाभाः, गुणाः, महत्त्वं च

संसारे परोपकार एव स गुणो विद्यते, येन मनुष्येषु जीवेषु वा सुखस्य प्रतिष्ठा वर्तते। समाजसेवाया भावना, देशप्रेमभावना देशभक्तिभावना, दीनोद्धरणभावना, परदुःखकातरता, सहानुभूतिगुणस्य सत्ता च परोपकारगणस्य ग्रहणेनैव भवति। परोपकारकरणेन हृदयं पवित्र। सत्त्वभावसमन्वितं सरल विनयोपेतं सरसं सदयं च भवति। परोपकारिणः परेषां दुःखं स्वीयं दुखं मत्वा तन्नाशाय यतन्ते। ते दीनेभ्यो दानं ददति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, ‘ बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षां ददति। सज्जना : परोपकारेणैव प्रसन्ना भवन्ति। ते परोपकरणे स्वीयं द : खं न गणयन्ति। उच्यते च –

"श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।

"श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।विभाति कायः खलु सज्जनानां, परोपकारेण न चन्दनेन ॥ १ ॥"

प्रकृतिरपि परोपकारस्यैव शिक्षा ददाति। परोपकारार्थमेव सूर्यः तपति, चन्द्रो ज्योत्स्नां वितरति, वृक्षाः फलानि वितरन्ति, नद्यो वहन्ति, मेघाश्च वर्षन्ति। उक्तं च –

"परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।

"परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम ॥ २ ॥"

"भवन्ति नभ्रास्तरवः फलोद्गमैः, नवाम्बुभिर्भूरिविलम्बिनोघनाः।

भवन्ति नभ्रास्तरवः फलोद्गमैः, नवाम्बुभिर्भूरिविलम्बिनोघनाः।अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणम् ॥ ३ ॥"

दृष्टान्ताः

शास्त्रेषु परोपकारस्य बहु महत्त्वं गीतमस्ति। परोपकारः सर्वेषामपटेश परोपकारेणैव जगतोऽभ्युदयो भवति, शान्तिः सुखं च वर्धेते। उक्तं च–

"अष्टादशपुराणेषु, व्यासस्य वचनद्वयम्।

अष्टादशपुराणेषु, व्यासस्य वचनद्वयम्।परोपकारः पुण्याय, पापाय परपीडनम् ॥ ४ ॥ "

उपसंहारः

परोपकारभावनयैव महाराजो दधीचिः देवानां हिताय स्वीयानि अस्थीति गोनाक्षणार्थं स्वमांसं श्येनाय प्रादात्। महाष दयानन्दः, महात्मा गांधिश्च भारतभूमिहितायैव प्राणान् दत्तवन्तौ। अत : सर्वैरपि सर्वदा सर्वथा परोप दत्तवन्तौ। अत : सर्वैरपि सर्वदा सर्वथा परोपकार : करणीय :। निगदितं चैतत् –

Similar questions