India Languages, asked by noname3, 1 year ago

parishram ka mahatva in sanskrit

Answers

Answered by VRAAA
157

श्रमः परिश्रमः सफलतायाः मूल कारणम्।उद्यमेन हि कार्याणि सिद्धयन्ति न मनोरथैः। विद्यार्थी जीवने परिश्रमः अत्यावश्यकः। अध्ययनं पठनं छात्राणां भविष्यं निर्मियेते। अस्मिन् काले विचलतायाः प्रभावः शीघ्रं छात्रान् आक्रामयति। अतः मनसः नियंत्रता अनिवार्या। यः छात्रः परिश्रमस्य महत्वं जानाति सः जीवने कदापि न सीदति। यौवने श्रमस्य सुपरिणामं प्राप्य अधिकं परिश्रमं कर्तुम् उद्यतः भविष्यति। श्रमिकः एव जानाति यत् तेन लब्धं सुफलं कियती आनन्दं जनयतीति। परिश्रमेण सुनिद्रां लभते तेन च देहः स्वस्थः भवति। परिश्रमी व्यक्ति केनापि प्रकारेण परैः दीनतां नैव अधिगच्छति। ये महापुरुषाः आसन् ते महता परिश्रमेणैव ख्यातिम् अलभन्त। अस्माकम् पूर्वजानां परिश्रमस्य
फलं वयम् इदानीम् अनुभवामः। अतः जीवने प्रगत्यै,  मनसः उत्सुकाय,आत्मनः
तृप्त्यै सर्वे परिश्रमं कुर्वन्तु।

Answered by anshitasharma2005
17

Answer:

Explanation:

the shlok is given below in Sanskrit. It's a short shlok on parishramsya matvam. I hope you like it.

Attachments:
Similar questions