CBSE BOARD X, asked by 1234lakshya, 1 year ago

plz its urgent mujhe sanskrit mai paryavaran sanrakshan par essay chaiye hai

Answers

Answered by shrutijha16
1
भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षकवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । "परितः आवृणोतीति---पर्यावरणम् ।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं च पञ्चमण्डलानि सन्ति । एतेषां प्रभावेण ऋतुचक्रं प्रवर्तते ।

सम्प्रति न केवलं भारते अपितु समस्ते भूमण्डले प्राकृतिकसन्तुलनं समुत्पन्नम् । कुत्रचिद् अनावृष्टिः अतिवृष्टिः च भवति साम्प्रतम् । वैज्ञानिकानां मते केवलं पृथिव्यामेव जीवनं वर्तते तदपि प्रदूषणेन शीघ्रमेन विनाशम् एष्यति ।अनेनासंतुलनेन असाध्यरोगाः (विषव्रण-कैंसर, हृदयरोगः, रक्तचापः) समुत्पन्नाः ।


जनसंख्याविस्फोटेन औद्योगीकरणेन व प्रदूषणस्य समस्या समुत्पन्ना पञ्चाशद् वर्षपूर्वं विश्वस्य जनसंख्याः द्वि-अर्बुदपरिमिताः आसीत् । अधुना तु पञ्चार्बुदपरिमिताः जाताः ।

जनानाम् अवश्यकतापूर्तये उद्योगानां राजमार्गाणां जलबन्धानां रेलमार्गाणां संचारसाधनानां च विस्तारः अपेक्षितः, अतः स्वार्थनिरतेन मानवेन प्रकृतिकोषात् मृत्प्रस्तरधातुकाष्ठादीनि परिलुण्ठितानि । यदि इत्थमेव प्रदूषणेन तापवृद्धिर्भवेच्चेत् तर्हि ध्रुवक्षेत्रे हिमगलनेन जलप्रलयः भविष्यति ।

मुख्यरूपेण भूमि-जल--वायु-ध्वनि-प्रदूषणानि सञ्चारितानि । वायुना कीटाणवः इतस्ततः नीयन्ते । वायुना विना न जीवन्ति जीवधारिणः । पाषाणतैलचालितानि (पैट्रोल) यानानि उपग्रह-प्रक्षेपक-राकेट-यानानि प्रतिक्षणं विषमिश्रितं धूमं वायौ मिश्रयन्ति । अनेन भूमेः शातोष्णपरिकरबन्धः विच्छृंखलितः भवति ।





Similar questions