postik aahar par sanskrit mai shlok
Answers
अस्मिन् संसारे सर्वे प्राणिनः आहारं गृह्णन्ति । जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति ।मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्थापर्यन्तम् अस्माकम् आहारः सन्तुलितः भवेत् । सद्यः प्रसूतः शिशुः मातुः दुग्धमेव पिबति । मातुर्दुग्धं पौष्टिकं भवति । पौष्टिक आहारेण शिशवः संवर्ध्यन्ते । सर्व-जनेभ्यः आहारे पौष्टिक फलानां महती आवश्यकता वर्तते अन्यथा ते दुर्बलाः अशक्ताश्च भविष्यन्ति ।
अस्माकम् आहार: उष्णम्, स्निग्धः, स्वादयुक्तः च भवेत् । मानवः मितभोगी भवेत् अन्यथा अजीर्णं भविष्यति, वैद्याः कथयन्ति-‘अजीर्णमन्नं रोगस्य कारणमस्ति । प्रसन्नचित्तेन स्वच्छस्थाने संयमेन उपविश्य नात्यधिकं नातिद्रुतम् आहारं कुर्यात् ।
चणकः तण्डुलः, गोधूमः, द्विद्वलं, यवः, आढकी, मुद्द्रः, माषः इत्यादीनि अन्नानि सन्ति । कूष्माण्डकः, कर्कटी, अलाबू:, मूलिका, आम्रम्, इक्षुः, कदलीफलं इत्यादीनि शाकफलानि सन्ति । नवनीतं दुग्धं, घृतं, तक्रं, दधि इत्यादिकं पेयम् अस्ति । एते सर्वे शाकाहारि-मानवानाम् आहाराः ।
बालानां कृते दुग्धम् अमृतं कथ्यते । घृतं तु बलवर्धकम् । मधु रक्त शोधनं करोति ।श्रीफलम् आमलकः, आमरूद्यः स्वास्थ्यं रक्षन्ति, उदर-शोधनं बलवर्धनं च कुर्वन्ति । उक्तञ्च-आहार-शास्त्रे “शाकाहारी मनुष्यः दीर्घायुः भवति ।"
hope it helps