English, asked by avn91you, 1 year ago

profile of bhagatsingh in sanskrit​

Answers

Answered by vishal2511
1

भगत सिहं, आङ्ग्ल: स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् । कश्चन सायन्तनः कालः । त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्तः । बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । "किं करोति वत्स?" इति पिता पृष्टवान् । "पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।" इति बालकः उक्तवान् । तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः ।

This is the answer.

MARK AS BRAINLIEST

Similar questions