Hindi, asked by nax77379, 5 hours ago

संस्कृत में कोई एक प्रेरणादायक कहानी लिखें​

Answers

Answered by priyanshupal622
2

Answer:

एकः वनम् अस्ति। तत्र एकः सिंहः निवसति। सः अतीव क्रूरः। सः प्रतिदिनम् एकः मृगं खादति।

एकदा तत्र एकः शृगालः आगच्छति। सः अतीव चतुरः। सः सिंहं पश्यति भीतः च भवति। सिंहः शृगालस्य समीपम् आगच्छति। तं खादितुं तत्परः भवति। तदा शृगालः रोदनं करोति।

सिंहः शृगालः पृच्छति

भवान् किमर्थं रोदनं करोति।

शृगालः वदति

श्रीमन्। वने एकः अन्यः सिंहः अस्ति। सः मम पुत्रान् खादितवान्। अतः अहं रोदनं करोमि।

सिंहः पृच्छति

सः अन्यः सिंहः कुत्र अस्ति।

शृगालः वदति

समीपे एकः कूपः अस्ति। सः तत्र निवासं करोति।

सिंहः वदति

अहं तत्र गत्वा पश्यामि। तं सिंहं मारयामि।

शृगालः वदति

श्रीमन्। आगच्छतु। अहं तं दर्शयामि।

शृगालः सिंहं कूपस्य समीपं नयति। कूपजलं दर्शयति सिंहः तत्र स्वप्रतिबिम्बं पश्यति। सः कोपेन गर्जनं करोति। कूपात् प्रतिध्वनिः भवति। तम् अन्यः सिंहः इति सः चिन्तयति। कुपितः सिंहः कूपे कूर्दनं करोति। सः तत्र एव मृतः भवति।

एवं शृगालः स्वचातुर्येण आत्मरक्षणं करोति।

Similar questions