संस्कृत में पांच सुलेख
Answers
Answer:
| शनिवारको राजकीय सीनियर सेकेंडरी स्कूल जींद में गीता जयंती खंड स्तरीय प्रतियोगिता का आयोजन किया गया। जिसमें संस्कृत सुलेख, भाषण, पेंटिंग प्रतियोगिता में 500 विद्यार्थियों ने हिस्सा लिया। प्रतियोगिता के संस्कृत सुलेख में डीपीएस के निशांत ने प्रथम स्थान प्राप्त किया। भाषण में 10वीं की छात्रा पूजा ने प्रथम स्थान एवं मणिर| ने पेंटिग में द्वितीय स्थान प्राप्त किया। विद्यालय पहुंचने पर प्रशिक्षक दीपज्योति, राकेश सुनीता भारद्वाज, मुकेश को सम्मानित किया गया। चेयरमैन एसपी बंसल प्राचार्य प्रवीन ढिल्लो में विजेताओं को इसी प्रकार आगे बढ़ने की प्रेरणा दी।
Answer:
1: देशभक्ति
यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । जननी इव जन्मभूमिः पूज्या आदरणीया च भवति । अस्याः यशः सर्वेषां देशवसिनां यशः भवति । अस्याः गौरवेण एव देशवसिनां गौरवम् भवति । ये जनाः स्वाभ्युदयार्थ देशस्याहितं कुर्वन्ति ते अधमाः सन्ति । देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते । अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति । अनया एव प्रेरिताः बहवः देशभक्ताः भगत सिंघः, चन्द्रशेखर आजाद प्रभृतयः आत्मोत्सर्गम् अकुर्वन् । झाँसीश्वरी लक्ष्मीबाई, राणाप्रताप मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देश जाता । देशभक्तिः व्यक्ति-समाज -देशकल्याणार्थ परमम् औषधम् अस्ति ।
2: सदाचारः
सताम् आचारः सदाचारः कथ्यते । सज्जनाः यानि कर्माणि कुर्वन्ति तानी एव अस्माभिः कर्तव्यानि । ऋषयश्च वदन्ति यानि अनिन्द्यानि कर्माणि तानि सेवितव्यानि नेतराणि । गुरुजनानां सेवा, सरलता सत्यभाषणम्, इन्द्रियनिग्रहः अद्रोहः, अपैशून्यम् आदि गुणानां गणना सदाचारे भवति । सदाचारवान् जनः दीर्घसूत्री न भवति । स हि अतन्द्रितः स्वकर्मानुष्ठानम् समयेन करोति । सदा मधुरं भाषणं करोति । स हि न कस्मैचिदपि द्रुह्यते । पुरा भारते सर्वेजनाः सदाचारवन्तः आसन् । इदानीं रामचन्द्रस्य मर्यादापुरुषोत्तमस्य जीवनं सदाचारस्य उत्कृष्टम् उदाहरणम् अस्ति । अस्माभिः तस्यैव जीवनम् अनुकरणीयम् ।
3:परोपकारः
परेषां उपकाराय कृतम् कर्म उपकारः कथयते । अस्मिन् जगति सर्वेजनाः स्वीयं सुखं वाञ्छन्ति । अस्मिन् एव जगति एवविधाः अपि जनाः सन्ति ये आत्मनः अकल्याणं कृत्वाऽपि परेषां कल्याणं कुर्वन्ति । ते एवम् परोपकारिणः सन्ति । परोपकारः दैव भावः अस्ति । अस्य भावस्य उदयेन एव समाजस्य देशस्य च प्रगतिः भवति । अचेतनाः परोपकर्मणि रताः दृश्यन्ते । मेघाः परोपकाराय जलं वहन्ति । नद्यः अपि स्वीयं जलं न स्वयं पिबन्ति । वृक्षाः परोपकाराय एव फलानि दधति एवं हि सज्जनाः परोपकाराय एव जीवनम् धारयन्ति ।
4:सत्संगतिः
सतां सज्जनानां संगतिः । सज्जनानां संगत्या ह्रदयं विचारं च पवित्रम् भवति । अनया जनः स्वार्थभावं परित्यज्य लोककल्याणकामः भवति । दुर्जनानां संगत्या दुर्बुद्धिः आगच्छति । दुर्बुद्धिः दुःखजननी अस्ति । सज्जनानां संगत्या दुर्जनः अपि सज्जनः भवति । दुष्टदुर्योधनसंगत्या भीष्मोऽपि गोहरणे गतः । ऋषीणाम् संगत्या व्याधः वाल्मीकिः अपि कवि वाल्मीकिः अभवत् । रावणसंगत्या समुद्रः अपि क्षुद्र नदीव बन्धनं प्राप्तः । अतः साध्विदमुच्यते-सत्संगतिः कथय किं न करोति पुंसाम् ।
5:श्रमस्य महत्त्वम्
शरीरेण मानसिकेन कृतं कर्म -श्रमं इति कथ्यते । श्रमेण विना जीवनं जीवनं नहि । श्रमेण विना न विद्या भवति न द्रव्यं, परिवारे समाजे, राष्ट्रे च श्रमस्य महत्त्वं दृश्यते । आविष्कारकः वैज्ञानिकः शारीरिक-मानसिक-श्रमेण नव-नव पदार्थान् आविष्करोति । श्रमेण विना भोजनमपि दुष्पाप्यम् भवति । अतएव आशैशवम् एव श्रमं कुर्यात् । अनेन श्रमेण राष्ट्रः समाजः परिवारश्च उन्नतिपथमारोहति ।