Hindi, asked by immortalgaming, 4 months ago

स्वास्थ्य के लिए योग का महत्वin Sanskrit​

Answers

Answered by aradhana66788
1

Explanation:

भ्रमण-धावन-क्रीडनादिभिः शरीरम् श्रान्तकरणम् व्यायामः कथ्यते । व्यायामः नित्यं करणीयः भवति । अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति । शरीरे द्रुतं रक्तसञ्चारः भवति । प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छति । अनेन पावनकर्म अपि सम्यक् भवति । व्यवहितः व्यायामः यथैव अस्वास्थ्यप्रदः भवति तथैव अव्यवहित व्यायामः स्वास्थ्यकरः भवति । स्वस्थे शरीरे एव स्वस्थं मस्तिकं भवति । स्वस्थः जनः सुयोग्यः नागरिकः भवति । देशसेवां स्वस्थे एव नागरिकाः कुर्वन्ति । न चास्ति सदृशं तेन किंचित्स्थौल्यापकर्षणम् । आरोग्यं चापि परमं व्यायामादुपजायते । शरीर- माद्यं खलु धर्मसाधनम्।

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

Similar questions