स्वास्थ्य पर चार वाक्य sanskrit me
Answers
Answer:
१– शरीरस्य चित्तस्य च निर्विकारा स्थितिः एव स्वास्थ्यम् इति ( कथ्यते ) । यदा मनुप्यस्य शरीरे मनसि वा कश्चित् विकारः न भवति तदा मनुष्यः स्वस्थः इति ( उच्यते ) ।
२ - मनुष्यजीवने बहूनि वस्तूनि आवश्यकानि भवन्ति । शिक्षा आवश्यकी भवति । धनम् आवश्यकं भवति । गृहम् आवश्यकं भवति तथा परिवारः आवश्यकः भवति । परन्तु एषु सर्वेषु अपि वस्तुषु सर्वापेक्षया आवश्यक वस्तु स्वास्थ्यं भवति ।
मनुष्यस्य इदं सर्वोत्तमं धनं वर्तते । यावत् मनुष्यस्य स्वास्थ्यं शोभनं न भवति तावत् सः किमपि अन्यत् कार्य कतु समर्थः न भवति । विद्याध्ययनं वा , धनोपार्जनं वा , धर्मानुष्ठानं वा , लोक सेवा वा , परदेशगमनं वा , सर्वमपि कार्य स्वस्थः एव मनुष्यः कतु शक्नोति ।अतएव महाकविना कालिदासेन कुमारसम्भवे ( कथितम् ) शरीरमाद्यं खलु धर्मसाधनम्
३ - ये मनुष्याः स्वस्थाः न भवन्ति ते स्वार्थं परार्थं वा कार्यं कर्तुंं न पारयन्ति । तेषां कृते स्वकीयानि नित्यकर्माणि अपि असाध्यानि भवन्ति । स्वास्थ्यहीनानां मनुष्याणां कृते शरीर धारणम् अपि कष्टकरं भवति । अस्वस्थाः मनुष्याः गृहे सुखसाधनेषु विद्यमानेषु अपि सुखोपभोगं कर्तुं न शक्नुवन्ति । तेषां कृते निखिलानि अपि सुखसाधनानि निरर्थकानि भवन्ति । अतः सुखोपभोगाय अपि स्वास्थ्यस्य महती आवश्यकता अस्ति ।
४ - अनेन कारणेन सर्वेः अपि सुखाभिलाषिभिः स्त्रीपुरुषैः स्वास्थ्यस्य उपरि पूर्ण रूपेण ध्यानं ( दातव्यम् ) । स्वास्थ्यरक्षायाः ये ये नियमाः स्वास्थ्यपुस्तकेषु लिखिताः सन्ति तेषां सम्यक् प्रकारेण पालनं ( कर्तव्यम् ) । आहारे विहारे , शयने जागरणे च कालातिक्रमः न ( कर्तव्यः ) । स्वास्थ्यविरोधिनां वस्तूनां भोजने पाने वा उपभोगः न ( विधातव्यः ) । शरीरे , मनसि , मस्तिके च अत्यधिकः भारः न ( देयः ) । प्रतिदिवसं यथाशक्ति व्यायामः ( कर्तव्यः ) । स्थानस्य , शरीरस्य , वस्त्रादीनां च स्वच्छतायां ध्यानं ( दातव्यम् ) । एतेषां नियमानां पालनेन स्वास्थ्यं समीचीनं तिष्ठति ।
Answer:
garme aur dhupe me kam karni se insane swasta rahita hai