Hindi, asked by mehtagita52, 10 months ago

सन्ति। भवान् इमानि कुतः आनयसि।" सः
अवदत् "प्रिये। मम एक: रक्तमुख: नाम परम
मित्रम् अस्ति। सः महा प्रतिदिन इमानि फलानि
यच्छति। सः तु अतीव सरल: परोपकारी चास्ति।"
तस्य पत्नी अवदत् “नाथा य: जीवः सदैव
ईदृशानि मधुराणि फलानि खादति, अवश्यमेव
तस्य हृदयम् अपि मधुरम् भविष्यति। यदि भवान्
मयि स्निाति तर्हि मह्यम् तस्य हृदयम् आनय।"
मकर: स्वपत्न्याः वार्ता श्रुत्वा आश्चर्यचकित:
अभवत्। सः ताम् अकथयत्-"त्वं कीदृशीं वार्ता
करोषि। सः वानरः मम मित्रम् अस्ति। अहम्
तस्य किञ्चिदपि अहितं कर्तुं न शक्नोमि।" इदम्
सर्वथा अनुचितम्।” सा पुनः अकथयत्-"यदि
भवान् मह्यम् तस्य वानरस्य हृदयं न दास्यति तर्हि
अहम् भोजनं त्यक्त्वा स्वप्राणत्यागं करिष्यामिा'
मकर: स्वपत्न्या: निश्चयं ज्ञात्वा अतीव दुखित:
अभवत्।
यदा सः वानरस्य समीपम् अगच्छत्। सः
वानरम् अवदत्-“भो मित्र! अद्य तव
भ्रातृजाया त्वाम् मेलितुम् इच्छति। त्वं
मया सह मम गृहं चल। त्वं मम पृष्ठे
उपविश, अहं त्वां तत्र नेष्यामि।" वानरः
हर्षितः भूत्वा मकरस्य पृष्ठे उपाविशत्।
यदा मकरः नद्याः मध्ये उपागच्छत् तदा
सः सर्वं वृत्तान्तं वानरम् अकथयत्। this is write in sanskrit word translet into hindi​

Answers

Answered by dhanya9172
1

Answer:

tell one thing what we have to do in this question

Similar questions