Hindi, asked by Sajalkasana, 1 year ago

Sanskrit essay vijaydashmi

Answers

Answered by yuvrajbagora
2
विजयादशमी भारतीयानां पवित्रं पर्व भवति। एतत् पर्व आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ सम्पाद्यते। इयं तिथिः विजयसूचिका मन्यते। अस्मिन् दिवसे श्रीरामः रावणस्य निधनं कृत्वा विजयं प्राप्तवान्। अस्मिन्नेव दिवसे दुर्गा शुम्भं निशुम्भं च अमारयत्। एतत् दिनं विजयेन सम्बन्धितमस्ति। अतः एतत् दिनं विजयादशमी नाम्ना प्रसिद्धम्। 


यद्यपि अयमुत्सवः आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ मन्यते, तथापि उत्सवात् दशदिनपूर्वमेव रामकथायाः रामलीलायाः संकीर्त्तनादीनां च आयोजनं भवति। जनाः उत्साहेन रामलीलां पश्यन्ति। दशम्यां तिथौ रावणकुम्भकर्ण-मेघनादानां च अग्निसंयोगः क्रियते। सायंकाले रामलीलाक्षेत्रे लोकानां विपुलः समागमः भवति। 


तस्मिन् समये रामस्य लक्ष्मणस्य हनुमतः च वेशेन कलाकाराः तत्र आगच्छन्ति। हनुमान् च दशहरास्थानमागच्छति। हनुमता कृत्रिमा लंका दह्यते। उपस्थिताः जनाः श्रीरामस्य जयध्वनिं कुर्वन्ति। अयमुत्सवः अधर्मस्य उपरी धर्मस्य, असत्यस्य उपरि सत्यस्य, दुर्जनतायाः उपरि सज्जनतायाः विजयस्य प्रतीकमस्ति। वस्तुतः एषः उत्सवः परमपावनः अस्ति। 

Similar questions