India Languages, asked by kumarraunak465, 6 hours ago

sanskrit ki parhगुणवती कन्या पाठ की hindi arth likhya

Answers

Answered by nirmalbhalse64
0

Answer:

प्रस्तुत पाठ महाकवि दण्डी द्वारा रचित दशकुमारचरित नामक गद्यकाव्य के षष्ठ उच्छ्वास से सम्पादित कर संकलित है। यहाँ मित्रगुप्त अपने विचित्र वृत्तान्त के अन्तर्गत गोमिनी नामक कन्या की कथा सुनाता है जो एक प्रस्थ (32 पलों के बराबर) धान से एक व्यक्ति को सम्पूर्ण भोजन कराने का प्रबन्ध करती है।

अस्ति द्रविडेषु काञ्ची नाम नगरी। तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत्। सोऽष्टादशवर्षदेशीयः चिन्तामापन्नः—’नास्त्यदाराणाम् अननुगुणदाराणां वा सुखम्। तत्कथं नु गुणवद् विन्देयं कलत्रम्।’ स वस्त्रान्तपिनद्धशालिप्रस्थो दारग्रहणाय भुवमभ्रमत्। यां कामपि लक्षणवतीं कन्यां विलोक्य स पृच्छति—’भद्रे! शक्नोषि किमनेन शालिप्रस्थेन गुणवदन्नम् अस्मान् भोजयितुम्?’ एवं कृते स हसितावधूतः गृहाद् गृहं प्रविश्याभ्रमत्।

एकदा स कावेरीतीरपत्तने विगलितसमृदिंध विरलभूषणां कुमारीमपश्यत्। तस्या अतुलितरूपसम्पदाभिभूतः शक्तिकुमारोऽचिन्तयत्—सेयमाकृतिर्न शीलविरोधि नी। आसज्जति मे हृदयमस्यामेव। तदेनां परीक्ष्योद्वहामि। स्नेहपूर्णदृष्टिः स आह—‘अस्ति ते कौशलं शालिप्रस्थेनानेन सम्पन्नमाहारम् अस्मान् भोजयितुम्?’

ततस्तया वृद्धदासी साभिप्रायमालोकिता। तस्य हस्तात् प्रस्थमात्रं धान्यमादाय स्वगृहस्य चत्वरे तं प्रक्षालितपादम् उपावेशयत्। ततस्तान् सुरभीन् शालीनातपे किञ्चिद् विशोष्य मुहुर्मुहुः परिवर्त्य समायां भूमौ अघ’यत्। तुषेभ्यस्तण्डुलान्पृथक् कृत्वा धात्रीमुक्तवती—’मातः! इमान् भूषणमार्जनसमर्थान् तुषान् स्वर्णकारेभ्यो देहि। तेभ्योलब्धाभिः काकिणीभिः काष्ठानि स्थालीं शरावद्वयं चाहर’ ततः सा तान् तण्डुलान् उलूखले मुसलेनावहत्य शूर्पेण शोधयित्वाऽसकृद् जलेन प्रक्षाल्य क्वथितजले प्राक्षिपत्। सिद्धेषु च तण्डुलेषु मण्डनिःसारणाय स्थालीमधोमुखीं कृतवती। इन्धनानि पुनरम्भसा शमयित्वा कृष्णाङ्गारानपि तदर्थिभ्यः प्रेषितवती। विक्रीतैरङ्गारैर्यत् मूल्यं लब्धं तेन शाकं घृतं दधि तैलं चिञ्चाफलं च क्रीतम्। ततो व्यञ्जनादिकं च तया सम्पादितम्।

अथ सा कन्या धात्रीमुखेनातिथिं स्नानाय प्रेरितवती। स्नानशुद्धायातिथये तैलमामलकं चायच्छत्। फलकमारुह्य प्राङ्गणकदलीदलं लवित्वा तत्रासनं भोजनाधारं च कृतवती। पेयोपहारपूर्वं भोजनं घृतसहितोदनं व्यञ्जनं च तस्मै दत्तवती।

मध्ये मध्ये च विविधभोज्यादि प्रकारान् वर्णयित्वा रुचिमपि वर्धितवती। अन्ततः शिशिरवारिणा पेयमाचमनं च प्रदत्तवती। भुक्ते तु तस्मिन् तयास्य शयनव्यवस्थापि कृता।

एवं कन्यागुणसम्पदा समाकृष्टः शक्तिकुमारस्तां विधिवदुपयम्य नीतवान्।

अतएवोक्तम्— ‘किं गृहिणः प्रियहिताय? दारगुणाः।’

Similar questions