English, asked by vikashkumar52, 1 year ago

Sanskrit Mein Paanch Vakya sadachar par likhe​


skbhandari60: sry but the sub is eng

Answers

Answered by shraddhaverma004
23

Answer:

Explanation:

सज्जनानां, सतां वा आचरणम् ‘सदाचारः’ कथ्यते। अस्माकं जीवने सदाचारस्य महत्त्वं विशेषम् अस्ति। 'आचार: प्रथमो धर्मः' इत्यपि उच्यते। सदाचारः एव श्रेष्ठ, धर्मः। धर्मस्याचरणमेव सदाचारणमस्ति। अस्माकं देशे सदाचारस्य प्रतिष्ठा महती वर्तते। सदाचारी जनः सर्वत्र पूज्यते। तं सर्वे जनाः प्रशंसन्ति च। महात्मा गाँधी, स्वामी दयानन्द प्रभृतयः महापुरुषाः सदाचारेण एव अमराः जाता:। सीतासावित्र्या-दय: नार्यः अपि सदाचारेण सुविख्याताः।

बाल्यादेव माता पुत्रं सदाचारस्य महत्त्वं कथयति। तेषां कृते सदाचार शिक्षायाः महत्त्वं आवश्यकमस्ति। यत: बाल्ये ये संस्काराः ते गृहे विद्यालये वा लभन्ते, तेषा महत्त्वं ते पश्चात् अनुभवन्ति जीवने। सदाचारिणः बालकाः सफलतां प्राप्नुवन्ति। बाला: परस्परं स्नेहभावेन व्यवहरन्ति, अपशब्दान् न वदन्ति, सर्वान सत्कुर्वन्ति एतानि सर्वाणि सदाचारस्य लक्षणानि एव। एतद्विपरीतं ये व्यवहरन्ति, ज्येष्ठानाम् आज्ञां न पालयन्ति ते जगति अपमानं, निन्दां च लभन्ते। अत: सर्वदा ज्येष्ठानां, वृद्धानां च आदर: करणीयः, ज्येष्ठाः अपि बालैः छात्रै: सह स्नेहेन व्यवहारं कुर्वन्तु। बालकानां जीवननिर्माणाय सदाचारस्य शिक्षा अनिवार्या भवेत्।

सदाचारसंपन्नः मानवः सदा सुखी भवति, अन्येभ्यः अपि सुखं ददाति। जीवनस्य सर्वेषु क्षेत्रेषु सः यशः प्राप्तुं समर्थः भवति। सदाचार पालनेन एव सः भवसागरं तरितुं समर्थो भवति। दुराचरणेन मानवः न सुख लभते न च साफल्यम्। सर्वे च तं निन्दन्ति एव।

सदाचारेण मानवः स्वोन्नति, देशस्य विकासं च करोति। अतः सुखसाधक: यशदायकः आचारः सर्वेः पालनीयः।

Answered by Anonymous
17

sadachaar vidhaarthi paropkaaraye karoti 2) sadachar baalken bhavisya ujwal bhawti 3) sadachar balak niyamit parishram karoti 4) sadachari purusha paryawaran swach karoti 5) sadachaar Bharat deshanaam abheenanng assti


Anonymous: ur welcome :) and forgive for not so well answer buddy
Similar questions