sanskrit vartalap on my country between two friends. pls answer
Answers
Answer:
प्रथमो मित्र::- वयस्य, अपि दृष्टानि वृत्तानि त्वया दूरदर्शनवाहिन्यां? निखिलेऽपि जगति कोरोना नाम्ना विषाणुना संहार: प्रचलित:| अद्ययावत लक्षाधिका: जना: स्वप्राणान् त्यक्त्वन्त: | अस्माकं भा रते देशेऽपि नैके जना: रोगेनैतेन बाधिता: मृताश्च | दयनीया खलु वर्तमाना स्थिति:| सर्वत्र चिनामयमेव वातावरणं|
द्वितीयो मित्र:- सत्यं| मयाsप्यनुभूतं वातावरणमिदं| सर्वेऽपि दैनिका: व्यवहारा: स्थगिता:| न कोऽपि रथ्यायां परिलक्ष्यते|| आरक्षका: सततं पथनिरीक्षणरता: वारं वारं उद्घोषयन्ति, भो: पौरा: स्वगृह एव तिष्ठन्तु|
प्रथमो मित्र::-सत्यमेव ननु| अस्माभिरेव स्वीयजतनम् करणीयं| नासिकमुखौ विमलेन वस्त्रेण आवरणीयं| अन्येन सह संपर्क: न कार्य:| ह्स्तौ वारं वारं निर्जन्तुकद्रवेण प्रक्षालितव्यौ| यदि स्वीयारोग्ये काsपि अनियमितता परिलक्षिता, तर्हि सत्वरम् चिकित्सकेन सह संपर्क: कर्तव्य:|
द्वितीयो मित्र:- युक्तमेव| अहं सर्वनिर्देशानैतान्कठोरतया पालयिष्ये|