India Languages, asked by rishilaugh, 1 year ago

sanskrit vyakaran ki rachna essay in sanskrit

Answers

Answered by RvChaudharY50
42

Answer:

सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।

अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।

Answered by coolthakursaini36
4

Answer:

Explanation:

संसारे अस्मिन् भाषाया: महत्वं तु सर्व विदितम् एव अस्ति| भाषाया: शुद्धस्वरूपस्य परिज्ञानाय व्याकरणस्य अपेक्षा अस्ति| व्याकरणज्ञानेन विना भाषाया: शुद्धस्वरूपं ज्ञातुं न शक्यते| शुद्धशब्दज्ञानाय, शुद्धवर्णोच्चारणाय, शुद्धशब्दप्रयोगे च व्याकरणज्ञानस्य सर्वथा अनिवार्यता वर्तते|

व्याकरण शब्दस्य अर्थ: -> व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा: अनेन इति शब्दज्ञानजनकं शास्त्रं व्याकरणम्| वि+आड्+कृ+ ल्युट् = व्याकरणम्| व्याकरणे स्वरव्यञ्जनादिविचार:, सन्धिविग्रहनियमा:, शब्दधातुरूपनियमा:, प्रकृतिप्रत्ययादिनां सूक्ष्म अतिसूक्ष्मविवेचनम्, ध्वनिविस्फोटादि विविधविषयविवेचनं च भवति|

रचनाकार: -> व्याकरणशास्त्रस्य रचनाकार: महर्षि पाणिनि वर्तते| महर्षिन: “अष्टाध्यायी” विरचितं य: व्याकरणजगति प्रथिता अस्ति| अष्टाध्यायीग्रन्थे अष्टौ अध्याया: सन्ति तेषु 4000 सूत्राणि सन्ति| व्याकरण वेदस्य मुखमस्ति|  

Similar questions