Hindi, asked by sahurakhi030, 3 months ago

सत्यसय विजयः कहानी हिन्दि में लिखिए​

Answers

Answered by aman8750447025
0

Answer:

!!!---: सत्यस्य विजयः :---!!!

=======================

एकस्मिन् ग्रामे एका धेनुः आसीत् । तस्याः नाम "विमला" आसीत् । तस्याः एकः वत्सः आसीत् । सा प्रतिदिनं प्रातः ग्रामात् दूरं घासं चरितुं गच्छति स्म ।

एकदा सायं विमला गृहम् आगच्छति स्म । मार्गे एकः व्याघ्रः आगच्छत् अवदत् च---"अहं बुभुक्षितः, तव मांसं खादिष्यामि ।"

विमला निर्भीका आसीत् । सा अवदत्---"पश्यतु । गृहे मम एकः वत्सः अस्ति । सायं यदा सः मम दुग्धं पास्यति ततः परम् अहं पुनः अत्र आगमिष्यामि । इदानीं मां त्यजतु भवान् ।"

व्याघ्रः अवदत्---"तव वचने कः विश्वासः ?"

विमला अवदत्---"सत्यं वदामि । अहम् आगमिष्यामि एव ।"

तदा व्याघ्रः ताम् अत्यजत् ।

विमला गृहम् आगच्छत् । वत्सः तस्याः दुग्धम् अपिबत् । ततः सा स्वसत्यं पालयितुं तत् वनस्थलम् अगच्छत् । व्याघ्रस्य विश्वासः नासीत् । अतः विमलां दृष्ट्वा सः चकितः अभवत् ।

विमला अवदत्---"अहम् आगता अस्मि । मां खादतु ।"

व्याघ्रः अवदत्---"भगिनि ! सत्यबलेन तव विजयः अभवत् । यद्यपि अहं बुभुक्षितः , तथापि तव मांसं न खादिष्यामि । त्वं गृहं गच्छ ।"

विमला सानन्दं गृहम् आगच्छत् । उक्तम् अस्ति---

"सत्यमेव जयति ।"

Similar questions