Hindi, asked by anjikajain23, 4 months ago

श्लोकानाम् अन्वयाः-
1. पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥
अन्वयः- पार्थं पितरं मातुलं जनार्दनं च उद्दिश्य कृत अस्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
2. योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्यं कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्॥
अन्वयः- कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
3. न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति॥
अन्वयः- रुष्यता भवता रमे! ते क्षेपेण न रुष्यामि किम् उक्त्वा अहं नापराद्धः कथं (भवान्) तिष्ठति यातु इति
4. पादयोः समुदाचारः क्रियतां निग्रहोचितः ।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
अन्वयः- पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।​

Answers

Answered by championbajpai8
0

Answer:

Change into Simple sentences

3. No one likes a man who tells lies.

Similar questions