Hindi, asked by gauravs8824, 6 hours ago

शृणुत! एकदा सः भटैः सह ग्रामम् अगच्छत्। तत्र सः स्वमित्रस्य गृह प्रति अगच्छत् तदा एव तस्य नेत्रे एकम् पाषाणखण्डम् अपतत्। एका वृद्धा तत् पाषाणखण्डम् अक्षिपत्। सैनिकाः शीघ्रम् एव तां वृद्धाम् अभितः अतिष्ठन् तस्यै अक्रुध्यन् च। तदा महाराजा रणजीतसिंहः तां वृद्धाम् अपृच्छत्-“त्वं मा किमर्थम् अमारयः?" सा अवदत्-"न, न! अहं भवन्तं न अमारयम्। अहं मम शिशवः च क्षुधिताः आसन्। अहं वृक्षात् फलं पातयितुम् ऐच्छम्। अतः फलाय पाषाणखण्डान् अक्षिपम्।” महाराजा अवदत्-“अहम् अवजानम्। त्वं गच्छ।" भटेभ्यः च आदेशम् अयच्छत् यत् तस्यै वृद्धायै पर्याप्तम् अन्नं धनं च यच्छेत्। एक: सैनिकः अवदत्-“महाराज! इयं त्वाम् पाषाणखण्डेन अमारयत् भवान् च तस्यै दण्ड यच्छेत्। महाराजा अवदत्-“न माम्, सा वृक्षं मारयति स्म। तदापि वृक्षः तस्यै फलं यच्छति अहं च पुनः नृपः अस्मि।"​

Answers

Answered by blossomgirl3107
1

Explanation:

wow sanskrit shlok

make brainlist

Similar questions