षड् दोषाः पुरुषेणेह, हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधः, आलस्यं दीर्घसूत्रता ।। 1।।
त्रिविधं नरकस्येदं, द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।। 2 ।।
ऋणशेषमग्निशेषं च, शत्रुशेषं तथैव च।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत् ।। 3 ।।
त्यजेत् एकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ।। 4।।
न च शत्रुरवज्ञेयो, दुर्बलोऽपि बलीयसा।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ।। 5 ।।
भीतवत् संविधातव्यं, यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा , प्रहर्तव्यमभीतवत् ।। 6।।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।7।।
त्यज दुर्जनसंसर्ग, भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं, स्मर नित्यमनित्यताम् ।। 8।।
गुणं पृच्छस्व मा रूपं, शीलं पृच्छस्व मा कुलम्।
सिद्धिं पृच्छस्व मा विद्या, भोगं पृच्छस्व मा धनम् ।।9।।plz sab Ka Hindi me translate kardo
Answers
Answered by
0
Answer:
wjeye9qhdiq9wh quiche iw9whcj jaws dropped off the bus and you 3u
Explanation:
sisisisskskskskssk
Similar questions