India Languages, asked by monapatel056, 6 months ago

षष्ठः
पाठः
आदर्शः छात्रः
सुदेश: पष्ठकक्षायां पठति।
प्रात:काले सूर्योदयात् पूर्वम् उत्याय प्रतिदिन
मातुः पितुः च चरणयो; नमति। सः नियमेन
अनुदिनं प्रातः सायं धावति। सः कर्मणि
कुशलः, विद्याध्ययनरतः, गुरुप्रियः,
अनुशासनप्रियः, विनयशील: च अस्ति।
सुदेश; श्रमशीलः अस्ति। सः स्वगृहस्य
वाटिकायाः पादपान सिञ्चति, तृणानि च
दूरीकरोति। सः स्ववस्त्राणि स्वयमेव
प्रक्षालयति, पुन: च स्वच्छ वस्त्रं धारयति। सः
पठितान् पाठान् परिश्रमेण पठति पुनः पुनः
स्मरति चा
सुदेश; सदैव समयेन विद्यालयं गच्छति।
कक्षायां स; अनुशासनेन शान्त्या च तिष्ठति।
स: विशेषध्यानेन सर्वान् विषयान् पठति,
शिक्षकान् समादरति च। विज्ञानविषये सः
महान् प्रवीण; अस्ति। तस्य व्यवहारेण छात्रा: अध्यापका: च प्रसन्नताम् अनुभवन्ति। स: गुरूणाम् आज्ञा पालयति। अत:
अध्ययनरतः, गुरुसेवापरायणः स; कक्षायां प्रथम स्थानं सर्वदैव लभते।
किम्बहुना, सुदेश: प्रतिदिनं क्रीडास्थले गत्वा नियमेन क्रीडति। 'हॉकी' इति तस्य प्रियं क्रीडनं विद्यते। क्रीडास्थले अपि
सः क्रीडानुशासनं परिपालयति। सः क्रीडास्थले स्वक्रीडाकौशलेन सर्वान् चमत्करोति। नगरे सर्वासु संस्थासु तस्य
क्रीडाकौशलस्य प्रशंसामयी शोभना चर्चा सर्वत्र श्रूयते। तेन जनपदीय समारोहे सर्वोत्कृष्टं स्थानं पुरस्काराश्च लब्धाः।
वस्तुत: न केवलेन अध्ययनेन, न वा अनुशासनेन, किं वा परिश्रमेण, उत वा सद्व्यवहारेण, क्रीडाकौशलेन वा सुदेश:
आदर्श: छात्रः अपितु अन्ये च नानाविधा; आदर्शचरित्रवर्धका: गुणा: तस्मिन् विद्यन्ते। अस्य आदर्शगुणान् अनुसृत्य य: क:
अपि छात्र: आदर्शभूत; भवितुं शक्नोति।

Answers

Answered by ayodhaybikkad
1

Answer:

what is your question?

Similar questions