India Languages, asked by jayendrajage, 1 year ago

shlok of kalidas in sanskrit​

Answers

Answered by shishir303
6

Some Shlok of KALIDAS from MEGHDUTAM (मेघदूतम्)

कश्चित्‍कान्‍ताविरहगुरुणा स्‍वाधिकारात्‍प्रमत:

    शापेनास्‍तग्‍ड:मितमहिमा वर्षभोग्‍येण भर्तु:।

यक्षश्‍चक्रे जनकतनयास्‍नानपुण्‍योदकेषु

    स्निग्‍धच्‍छायातरुषु वसतिं रामगिर्याश्रमेषु।।

तस्मिन्‍नद्रो कतिचिदबलाविप्रयुक्‍त: स कामी

     नीत्‍वा मासान्‍कनकवलयभ्रंशरिक्‍त प्रकोष्‍ठ:

आषाढस्‍य प्रथमदिवसे मेघमाश्लिष्‍टसानु

     वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।।

तस्‍य स्थित्‍वा कथमपि पुर: कौतुकाधानहेतो-

    रन्‍तर्वाष्‍पश्चिरमनुचरो राजराजस्‍य दध्‍यौ।

मेघालोके भवति सुखिनो∙प्‍यन्‍यथावृत्ति चेत:

    कण्‍ठाश्‍लेषप्रणयिनि जने किं पुनर्दूरसंस्‍थे।।

प्रत्‍यासन्‍ने नभसि दयिताजीवितालम्‍बनार्थी

     जीमूतेन स्‍वकुशलमयीं हारयिष्‍यन्‍प्रवृत्तिम्।

स प्रत्‍यग्रै: कुटजकुसुमै: कल्पितार्घाय तस्‍मै

     प्रीत: प्रीतिप्रमुखवचनं स्‍वागतं व्‍याजहार।।

धूमज्‍योति: सलिलमरुतां संनिपात: क्‍व मेघ:

     संदेशार्था: क्‍व पटुकरणै: प्राणिभि: प्रापणीया:।

इत्‍यौत्‍सुक्यादपरिगणयन्‍गुह्यकस्‍तं ययाचे

     कामार्ता हि प्रकृतिकृपणाश्‍चेतनाचेतनुषु।।

जातं वंशे भुवनविदिते पुष्‍करावर्तकानां

     जानामि त्‍वां प्रकृतिपुरुषं कामरूपं मघोन:।

तेनार्थित्‍वं त्‍वयि विधिवशादूरबन्‍धुर्गतो हं

     याण्‍चा मोघा वरमधिगुणे नाधमे लब्‍धकामा।।

संतप्‍तानां त्‍वमसि शरणं तत्‍पयोद! प्रियाया:

     संदेशं मे हर धनपतिक्रोधविश्लेषितस्‍य।

गन्‍तव्‍या ते वसतिरलका नाम यक्षेश्‍वराणां

     बाह्योद्यानस्थितहरशिरश्‍चन्द्रिकाधौतह्मर्म्या ।।

त्वामारूढं पवनपदवीमुद्गृहीतालकान्‍ता:

     प्रेक्षिष्‍यन्‍ते पथिकवनिता: प्रत्‍ययादाश्‍वसन्‍त्‍य:।

क: संनद्धे विरहविधुरां त्‍वय्युपेक्षेत जायां

     न स्‍यादन्‍योsप्‍यहमिव जनो य: पराधीनवृत्ति:।।

मन्‍दं मन्‍दं नुदति पवनश्‍चानुकूलो यथा त्‍वां

    वामश्‍चायं नदति मधुरं चाकतस्‍ते सगन्‍ध:।

गर्भाधानक्षणपरिचयान्‍नूनमाबद्धमाला:

    सेविष्‍यन्‍ते नयनसुभगं खे भवन्‍तं बलाका:।।

तां चावश्‍यं दिवसगणनातत्‍परामेकपत्‍नी-

    पव्‍यापन्‍नामविहतगतिर्द्रक्ष्‍यसि भ्रातृजायाम्।

आशाबन्‍ध: कुसुमसदृशं प्रायशो ह्यङ्गनानां

    सद्य:पाति प्रणयि हृदयं विप्रयोगे रुणद्धि।।

Similar questions