India Languages, asked by salonishreya23, 5 months ago

Short essay on Valmiki in Sanskrit​

Answers

Answered by BrainlyAllRounder
0

Answer:

महर्षिः वाल्मीकिः भारतस्य प्रसि्द्धः कविः। अस्य रचना रामायणम् आदि काव्यम् इति प्रसिद्धम्। अतः सः आदिकविः इति विश्व प्रसिद्धः।  अयं महान् पुरुषः पुरा तस्करः अभवत्। नारदस्य अनुग्रहेण सः राम कथाम् अरचयत्।

अस्मिन् महाकाव्ये चतुर्विंशतिसहस्र श्लोकाः सन्ति। अनुष्टुप् छन्दसि निबद्धाः एते अतीव सरलाः सर्वेषां मनः हरन्ति। सुपुत्राः कीदृशाः भवेयुः, राज्ञः कर्तव्यं किम्, पत्नी धर्मः कथम् आचरणीयः इत्यादीनां विषयाः बहु सुन्दरतया प्रदत्ताः।

रामायणस्य मूल मन्त्रं तु प्राणेभ्यः अपि दत्तम् वचनं रक्षणीयम् इति। रामेण सदृशः आदर्शः पुरुषः दुर्लभः। भरतस्य भ्रातृस्नेहः हनुमतः भक्तिः सीतायाः सहधर्मचरपालनम् इतोपि विषयाः अस्माभिः अनुकरणीयाः। सप्तकाणडेषु रचिते रामायणे सुन्दर काणडम् अतीव सुन्दरम् अस्ति। तस्य पठनं पारारणं जीवने सुखं शान्तिं अभीष्टं च दास्यति इति सर्वसम्मदः। यावत् गिरयः स्थास्यन्ति तावत् रामायणम् स्थास्यति। जयतु वाल्मीकिः जयतु च रामायणम् च।

Explanation:

please mark me brainliest...i need that

Similar questions