short story in sanskrit with moral
Answers
पिपासित: काक:”
एकदा एक: काक: पिपासित: आसीत् | स: जलं पातुम् इतस्तत: अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते स: एकं घटम् अपश्यत् | घटे जलं स्वल्पम् आसीत् | स: जलं पातुं समर्थ: न अभवत् |
स: एकम् उपायम् अचिन्तयत् | स: पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलम् उपरि आगच्छत् | काक: जलं पीत्वा संतुष्ट: अभवत् |
शिक्षा – उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै: |
pls mark me as brainliest Hope it helps you
Answer:
Pls mark as brainliest and follow me ❤️
Explanation:
मण्डूकमन्दविषसर्प कथा -- The Frog And The Snake Named Mandavisa
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥
स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् ।
वहता कृष्णसर्पेण मण्डूका विनिपातिताः ॥
अस्ति वरुणाद्रिसमीपे एकस्मिन् प्रदेशे परणितवया मन्दविषो नाम कृष्णसर्पः । स एवं चित्ते सञ्जिन्तितवान् -- "कथं नाम मया सुखोपायवृत्त्या वर्तितवयम्" इति । ततो बहुमण्डूकं हृदमुपगम्याधृतिपरीतमिवात्मानं दर्शितवान । अथ तथास्थिते तस्मिन्नुदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः -- "माम ! किमद्य यथापूर्वमाहारार्थं न विहरसि ?"
सोऽब्रवीत् -- "भद्र ! कुतो मे मन्दभाग्यस्याहाराभिलाषः ! यत्कारणम् -- अद्य रात्रौ प्रदोषे एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद् ग्रहणार्थं मया क्रमः सञ्चितः । सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न विभावितो मया क्वापि गतः । तत्सदृशमोहितचित्तेन मया कस्यचिद् ब्राह्मणसूनोर्हृदतटजलान्तःस्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः ।
अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा -- "दुरात्मन् ! त्वया निरपराधो मत्सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि । तत्प्रसादलब्धजीविकया च वर्त्तिष्यसे" इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि ।
तेन स सर्वमण्डूक नामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वैरेव गत्वा जलपादनाम्नो दर्दुरराजस्य विज्ञप्तम् । अथासावपि मन्त्रिपरिवृतोऽत्यद्भुतमिदमिति मन्यमानः ससम्भ्रमं हृदादुत्तीर्य मन्दविषस्य फणिनः फणप्रदेशमधिरूढः । शेषा अपि यथा ज्येष्ठं ततेपृष्ठोपरि समारूरूहुः । किं बहुना, तदुपरि स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति ।
मन्दविषोऽपि तेषां तुष्टयर्थमनेकप्रकारानं गतिविशेषानदर्शयत् । अथ जलपादो लब्धतदसङ्गसंस्पर्शंसुखस्तमाह --
"न तथा करिणा यानं तुरगेण रथेन वा ।
नरयानेन नावा वा यथा मन्दविषेण मे ॥"
अथाऽन्येद्यर्मन्दविषश्छद्मना मन्दं-मन्दं विसर्पति । तञ्च दृष्ट्वा, जलपादोब्रवीत् -- "भद्र मन्दविष ! यथापूर्व किमद्य साधु नोह्यते ?" । मन्दविषोऽब्रवीत् -- "देव ! अद्याहारवैकयान्न मे वोढुं शक्तिरस्ति ।" अथासाब्रवीत् -- " भद्र ! भक्ष्य क्षुद्रमषडुकान् । तच्छ्रुत्वा प्रहर्षितलर्वगात्रो मन्दविषः ससम्भ्रमभ्रवीत् -- " ममायमेव विप्रशापोऽस्ति । तत्तवानेनानुज्ञावचनेन प्रीतोऽस्मि ।"
ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैरहोभिर्बलवान् संवृत्तः । प्रहृष्टश्चानतर्लीनमवहस्येदमब्रवीत् --
"मण्डूका विविधास्वादाश्छलपूर्वोपसाधिताः ।
क्यन्तं कालभक्षीणा भवेयुः खादतो मम् ॥"
--