India Languages, asked by Tejaswini369, 9 months ago

Slogan on independence day in Sanskrit

Answers

Answered by snghsneha
1

Answer:

भारतो मम देशोऽयं भारतीयाश्च बान्धवाः ।

परानुरक्तिरस्मिन् मे देशेऽस्ति मम सर्वदा ॥१॥

समृद्धाः विविधाश्चास्य या देशस्य परम्पराः ।

सन्ति ताः प्रति मे नित्यम् अभिमानोन्नतम् शिरः ॥२॥

प्रयतिष्ये सदा चाहम् आसादयितुम् अर्हताम् ।

येन तासाम् भविष्यामि श्रद्धायुक्तः पदानुगः ॥३॥

संमानयेयं पितर वयोज्येष्ठान् गुरुंस्तथा ।

सौजन्येनैव वर्तेय तथा सर्वैरहं सदा ॥४॥

स्वकियेन हि देशेन स्वदेशीयैश्च बान्धवैः ।

एकान्तनिष्ठं आचारं प्रतिजाने हि सर्वदा ॥५॥

एतेषामेव कल्याणे समुत्कर्षे तथैव च |

नूनं विनिहितं सर्वं सौख्यं आत्यन्तिकं मम ||६||

Explanation:

Similar questions