Tell me 10 lines about football in sanskrit
Answers
पादकन्दुकक्रीडा/Football
ऐतिहासिकी पृष्ठभूमिः
क्रिस्तोः पूर्वं द्विशतं वर्षेभ्यः चीनदेशे द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञः जन्मदिने राजप्रासादस्याग्रे द्वौ विरुद्धदलयोः मध्ये जनानां रञ्जनाय क्रीडन्ति स्म । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषकत्वेन दीयन्ते स्म । तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडायाः स्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं 'सुचु’(TSUCHUE) अथवा 'किक्-बाल' (KICK BALL) इत्यासीत् ।
क्रीडकसंख्या -पादकन्दुक्-क्रीडा द्वयोएदलयोर्मध्ये भवति । तत्र प्रतिदलं क्रीडकानां संख्याऽधिकाधिकमेकादश ११ मिता समुचिता मन्यते । एतेषु क्रीड्केष्वेकः सीमरक्षको (गोल-कीपरः० भवति । सामान्यक्रीडावसरे द्वौ प्रतिनिधि-क्रीडकावपि भवतः परं प्रतिस्पर्धारुपिण्यां क्रीडायां सम्बद्ध-संस्थाया अनुमतिरपेक्षिताऽस्ति । दलस्यैको नायको भवति, यः स्वस्य दलस्य व्यवस्थापने समयानुसारं क्रीडकस्य स्थानपरिवर्तने च समर्थो भवति । यदा कदा क्रीडकसंख्या न्यूनाऽपि भवितुमर्हति ।
MARK ANSWER AS BRAINLIEST
वाताध्मातो गोवस्तिर् यः सङ्क्रीडमानजनपादाघातेन इतस्ततो विक्षिप्यते.