द्वितीयः पटलः Chapter कृतज्ञा पिपीलिका तडागः अस्ति । तडागस्य तीरे एक वृक्षः अस्ति । एकदा वृक्षस्य शाखायाम् एकः कपोत : उपविशति । तदा एका पिपीलिका वृक्षस्य शाखायाः तडागस्य जले पतति । ततः कपोतः पिपीलिकां जले पश्यति । तदा कपोतस्य हृदये करुणा उद्भवति । सः करुणया तस्याः समीपे क्षिपति । ततः पिपीलिका पर्णम् आरोहति । तडागस्य तरङ्गाः तत् पर्ण तीरम् आनयन्ति । पश्चात् पिपीलिका स्वगृहं गच्छति कपोतस्य धन्यवादान् यच्छति । कालान्तरेण एकदा कपोतः तस्य वृक्षस्य शाखायाम् उपविशति। तदा एकः व्याधः तत्र आगच्छति। सः कपोतं पश्यति। सः व्याधः कपोतस्य वधाय तत्परः भवति। व्याधः तुणीरात् बाणं निष्कासयति। यदा सः व्याधः कपोतं प्रति बाणं लक्ष्यं करोति तदा पिपीलिका व्याधं दशति। दंशस्य पीडया व्याधस्य बाणः लक्ष्यात् स्खलति । कपोतः शाखायाः उत्पतति अन्यत्र च गच्छति। एवम् पिपीलिका कपोतस्य, कपोतच पिपीलिकायाः प्राणान् रक्षति। पिपीलिका प्रत्युपकारेण कृतज्ञा भवति। ततः कपोतः शाखाया: उत्पतति अन्यत्र च गच्छति| एवम् पिपीलिका कपोतस्य, कपोतः च पिपीलिकाया:प्राणान् रक्षति| पिपीलिका प्रत्युपकारेण कृतज्ञा भवति| इसका अर्थ बताए
Answers
Answered by
0
Answer:
sorry,we don't have that lesson
Similar questions