the eassy of vanam in Sanskrit
Answers
Answer:
भारतदेशः वनानां दृष्ट्या समृद्धः वर्तते। देशस्य सकलक्षेत्रफलस्य 25 प्रतिशतानि क्षेत्राणि वनाच्छादितानि सन्ति। वनम् अस्माकं महान् निधिः अस्ति। न केवलं वनानां रमणीयता मनांसि रंजयति, अपितु अनेन पर्यावरणमपि सुरक्षितं भवति । ये घटकाः पारिस्थितिकितंत्र प्रभावयन्ति, तेषु घटकेषु वनं सर्वप्रमुखमस्ति। वस्तुतः वनं वसुन्धरायाः सुरक्षावलयमस्ति । वृश्टेः मुख्य कारणं वनमेव अस्ति। इदं शुद्ध वायु प्रददाति। मृत्तिकायाः अपर्दनं न्यूनीकरोति। जगतः तापमानस्य नियन्त्रणं करोति। अतएव वनसंरक्षणम् अत्यावश्यकमस्ति।
विविधाभिः वनसम्पद्धिः सम्पन्नानि वनानि देशे विद्यन्ते। विधिकप्रबन्धदृष्ट्या वनानि त्रिवर्गेषु विभक्तानि -आरक्षितं वनं, संरक्षितं वनम् अवर्गीकृतं वनं च।
आरक्षितं वनम् - आरक्षितवनस्य प्रबन्धनं सुव्यवस्थितं भवति। अस्य सुरक्षायाः विकासस्य च निश्चिताः योजनाः भवन्ति। राष्ट्रियोद्यानम् अभ्यारण्यं च आरक्षित वनम् एवं स्तः।
संरक्षितं वनम् । संरक्षितवने संरक्षणेन सह उत्पादनाय गतिविधयः क्रियान्विताः भवन्ति। वनविभागः योजनानुसार वैज्ञानिकविधिना वनोत्पादं प्राप्नोति। अत्र उत्पादनेन सह वनसंरक्षणं प्रथमं लक्ष्यमस्ति।
अवर्गीकृतं वनम् - वनभूमेः व्यवस्थापनसमये यस्य वनक्षेत्रस्य वर्गीकरणं नाभवत् तदेव अवर्गीकृतवनम्। अत्र सर्वकारेण नास्ति कोऽपि प्रतिबन्धः। अस्मिन् वनक्षेत्रे जनार्थं काष्ठसंग्रहणस्य पशुचारणस्य च स्वतन्त्रता अस्ति।
उपलब्धासु वनस्पतिषु ओषधिपादपाः प्रचुरमात्रायाम् उपलभ्यन्ते। प्रदेशस्य बहुवः उद्योगाः वनोत्पादने एव अवलम्बिताः, यथा काष्ठं, कर्गदं, हरीतकी, वंशं, खदिरः च। वनानि एतानि जनेभ्यः आजीविकायाः साधनानि सन्ति।
वन्यजीवानां बहुलता विविधता च देशस्य गौरवम् एतेषाम् उपलब्धता तत्क्षेत्रे वनानां सुस्थितिः द्योतते। एतेषु वन्यजीवेषु प्रमुखतः व्याघ्रः, तरक्षुः, वनमहिषः, हरिणः, साम्भरः, गौरः, वनवराहः, भल्लूकः, पर्वतसारिका, नीलगौः चिंकारादयः चेति। वनमहिषः राजकीयपशुः पर्वतसारिका राजकीयपक्षी च घोषितौ। वन्यजीवानां रक्षणार्थमपि वनसंरक्षणं आवश्यकम्।
नूनं वनं जीवानाम् आश्रयस्थलमस्ति। तस्मात् कारणात् देशे राष्ट्रियोद्यानानि अभयारण्यानि च संस्थापितानि सन्ति।
Explanation:
मुझे आशा है कि यह उत्तर आपके लिए उपयोगी है