Hindi, asked by sonalpriyanka7650, 11 months ago

Uses of internet in Sanskrit

Answers

Answered by Nshantthor
0

Explanation:

अन्तर्जालम् इत्येतत् अत्यधिकानां सङ्गणकानां कश्चन जालबन्धः वर्तते ।

विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।

दूरसंचारक्षेत्रे संगणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते।

साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानां माध्यमेनैव विधीयते।

इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति।

संगणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते।

सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते।

संसारे लघु-बृहद्-संगणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति ।

अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च ।

येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।

कानिचित् गणकयन्त्रस्य पदानि

“com” वाणिज्यव्यवहार सेवासंस्था ।

“edu” शिक्षण सेवासंस्था।

“gov” सर्वकारस्य सेवासंस्था ।

“org” वाणिज्येतर सेवासंस्था ।

“net” अनार्जाल सेवासंस्था ।

“in” भारतदेशः ।

“uk” इंग्लण्डदेशः ।

“au” आस्त्रेलियादेशः ।

Similar questions