उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।1।। पुस्तके पठितः पाठः जीवने नैव साधित:। किं भवेत् तेन पाठेन जीवने यो न सार्थकः ।।2।। प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः। तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ।।3।। गच्छन् पिपीलको याति योजनानां शतान्यपि। अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।4।। काक: कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिक: पिक:l l 5 l l
Answers
Answered by
0
Answer:
1 answer is always right
Similar questions