Music, asked by ashishrajput7283, 25 days ago

utsav snaskrt nibandh​

Answers

Answered by darksoulknight4321
0

Explanation:

1. भारतवर्षस्य एकः महान् उत्सवः अस्ति ।

2. दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।

3. कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व ।

4. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति ।

5. एतत्पर्वावसरे गृहे , देवालये , आश्रमे , मठे , नदीतीरे , समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।

6. प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते ।

7. दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति ।

8. पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।

9. रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।

10. सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति , सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।

11. ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।

12. बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति ।

13. अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति ।

14. अस्य पर्वण: दीपालिका , दीपोत्सव: , सुखरात्रि: , सुखसुप्तिका , यक्षरात्रि: , कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति।

15. अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

Similar questions