India Languages, asked by ravitavisen, 5 months ago

विद्यार्थी जीवनम् Essay in sanskrit ...

Don't spam please ☹️​

Answers

Answered by RedCriminal
4
Answer :-


छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते। समस्तजीवनस्य विकासस्य हासस्य वा कारणम् एतज्जीवनमेवास्ति। वस्तुतः विद्यार्थिजीवनं साधनामयं जीवनम्। अध्ययनं परमं तप उच्यते।

छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते। यः छात्रः आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययन करोति स एव साफल्यं लभते। अतएव छात्रैः प्रातःकाले ब्रह्ममुहूर्ते एव उत्थातव्यम्। कस्मैचित् कालाय भ्रमणाये अनिवार्यम्। ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम्। तदान्तरं च लघुसात्विक भोजनं दुग्ध च महीत्वा विद्यालयं गन्तव्यम्। तत्र गत्वा गुरून् नत्वा अध्ययनं कर्त्तव्यम्। छात्रैः असत्यवादं न कदापि कर्त्तव्यम्।

छात्रजीवनं पूर्णतः अनुशासनबद्धं भवति। विद्यार्थिजीवने एव समस्तानां मानवोचितगुणानां विकास भवति। छात्र एव राष्ट्रस्ययानुपमा निधिरस्ति। अतः छात्राणां शारीरिकं चारित्रिकंच विकासं अत्यन्तानिवार्यम् विद्यार्थिजीवनमेव सम्पूर्णााँमिजीवनस्य आधारशिला। अतः तेषां सम्यक् रक्षणं, पोषणम् च कर्त्तव्यम्।

Thanks ☕️☕️

Answered by STarAK
4

Answer:

 \fbox \pink {A} \fbox \blue {ɳ} \fbox \purple {ʂ} \fbox \green {ɯ} \fbox \red {ҽ} \fbox \orange {ɾ}

छात्रकालः मनुष्यजीवनस्य सुवर्णमयः कालः । अस्माकं पुरातनग्रन्थेषु अस्य ईदृशं महत्त्वं यत् अनेन मनुष्यस्य द्वितीयं जन्म मन्यते, स च द्विजः उच्यते । वस्तुतः छात्रजीवनं मनुष्यस्य द्वितीयं जन्म एव विद्यते । यदा मनुष्यः जायते, तदा सः पशुतुल्यः एव भवति, केवलं खादितुं पातुं स्वपितुं च जानाति । परन्तु छात्रजीवने एव सः ज्ञानं लभते, परेषां दुःखम् अवबोद्ध, धर्मस्य तत्त्वं ज्ञातुं, परमशक्तिविषये अनुभवितुं, महापुरुषाणां विचारान् पठितं, सम्यग् आचरितुं च अवसरं लभते । प्राचीनकाले छात्रजीवनं ब्रह्मचर्यम् उच्यते स्म । ब्रह्मचारी तपोमयं जीवनं कठोर व्रतं च आचर्य सरलभावेन केवलं ज्ञानोपार्जने संलग्नोऽभवत् । अनेन तपसा ज्ञानेन च भाविजीवने सः कष्टानि सोढुं समर्थोऽभवत् ज्ञानस्य, विद्यायाः तपसः, दानादिधर्मस्य च विशिष्टं महत्त्वमस्ति मनुष्यजीवने, अन्यथा मनुष्यः पशुतुल्यो भवति । उक्तं हि– येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ।

___________________________

Similar questions