CBSE BOARD X, asked by AishwaryaSharmaX, 3 months ago

वायु प्रदूषण अनुच्छेद संस्कृत में​

Answers

Answered by MALLIKP
4

Answer:

भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षकवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । "परितः आवृणोतीति---पर्यावरणम् ।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं च पञ्चमण्डलानि सन्ति । एतेषां प्रभावेण ऋतुचक्रं प्रवर्तते ।

सम्प्रति न केवलं भारते अपितु समस्ते भूमण्डले प्राकृतिकसन्तुलनं समुत्पन्नम् । कुत्रचिद् अनावृष्टिः अतिवृष्टिः च भवति साम्प्रतम् । वैज्ञानिकानां मते केवलं पृथिव्यामेव जीवनं वर्तते तदपि प्रदूषणेन शीघ्रमेन विनाशम् एष्यति ।अनेनासंतुलनेन असाध्यरोगाः (विषव्रण-कैंसर, हृदयरोगः, रक्तचापः) समुत्पन्नाः ।

जनसंख्याविस्फोटेन औद्योगीकरणेन व प्रदूषणस्य समस्या समुत्पन्ना पञ्चाशद् वर्षपूर्वं विश्वस्य जनसंख्याः द्वि-अर्बुदपरिमिताः आसीत् । अधुना तु पञ्चार्बुदपरिमिताः जाताः ।

जनानाम् अवश्यकतापूर्तये उद्योगानां राजमार्गाणां जलबन्धानां रेलमार्गाणां संचारसाधनानां च विस्तारः अपेक्षितः, अतः स्वार्थनिरतेन मानवेन प्रकृतिकोषात् मृत्प्रस्तरधातुकाष्ठादीनि परिलुण्ठितानि । यदि इत्थमेव प्रदूषणेन तापवृद्धिर्भवेच्चेत् तर्हि ध्रुवक्षेत्रे हिमगलनेन जलप्रलयः भविष्यति ।

मुख्यरूपेण भूमि-जल--वायु-ध्वनि-प्रदूषणानि सञ्चारितानि । वायुना कीटाणवः इतस्ततः नीयन्ते । वायुना विना न जीवन्ति जीवधारिणः । पाषाणतैलचालितानि (पैट्रोल) यानानि उपग्रह-प्रक्षेपक-राकेट-यानानि प्रतिक्षणं विषमिश्रितं धूमं वायौ मिश्रयन्ति । अनेन भूमेः शातोष्णपरिकरबन्धः विच्छृंखलितः भवति ।

मलमूत्रप्रणालीनाम् तैलशोधकरसायनानां प्रदूषितजलेन कूपनदीजलाशयानां जलराशिः विषाक्तः भूत्वा विषूचिकापाण्डु-जलोदररोगान् जनयति । कीटनाशकानां वर्धमानेन प्रयोगेण पृथिव्याः अन्नफलादीनि प्रदूषितानि जातानि ।

महानगरेषु वाहनानां निर्बाध-प्रचलनेन ध्वनि-प्रसारयन्त्र-विज्ञापनेन नूतनयन्त्राणां निनादेन कर्णस्फोटकध्वनिः रात्रिदिवं समुत्पद्यते तेन मानवस्य मनःशान्ति-विलुप्ता जनाः अनिद्रारोगेण विक्षिप्ताः इव सन्ति ।

पर्यावरण-प्रदूषण-निरोधाय जनाः यत्र तत्र ष्ठीवनं मलमूत्र-प्रक्षेपणं न कुर्युः । गृहस्य रथ्यायाश्च प्रणाल्यः स्वच्छाः स्युः । बालकाः युवकाः, कृषकाः युवत्यश्च विद्यालयेषु, उद्यानेषु क्षेत्रेषु गृह-उद्यानेषु आधिक्येन वृक्षारोपणं कुर्युः । वृक्षच्छेदनकानां कृते दण्डव्यवस्था भवेत् । महानगरेषु मध्ये मध्ये सघनानां हरितानाम् उद्यानानां विकासेन वायु-प्रदूषणं न्यूनं कर्तुं शक्यते ।

वस्तुतः समस्यानां निराकरणं युक्तिसंगतेन समाधानेन सम्भवम् । वर्त्तमानयुगे पर्यावरणशोधनस्य परमावश्यकता । प्रबुद्धाः भारतीयाः पुरा वायुशुद्ध्यर्थं हवनादिकम् अकुर्वन् । ते वृक्षारोपणं सूर्य-पवन-वरुण-वनस्पतीनां स्तुतिम् अकुर्वन् । येन ते सुखेन स्वजीवनं यापयामासुः ।

thanks for asking

Similar questions