वसन्त ऋतु पर निबंध Sanskrit me
Answers
भारते षड् ऋतवः भवन्ति–ग्रीष्मः, वर्षाः, शरद्, हेमन्तः, शिशिरः, वसन्तश्च । वसन्तः शिशिरस्य पश्चात् आगच्छति । वसन्तः ऋतुराजः इति उच्यते । ।
शिशिरे सर्वेषाम् वृक्षाणाम् पत्राणि पतन्ति । वृक्षाः नग्नाः इव दृश्यन्ते । प्रकृतिरपि शोकार्ता इव दृश्यते ।
वसन्ते सर्वेषु वृक्षेषु नवपल्लवाः विकसन्ति। वृक्षाणां शाखा पुष्पाणां भारेण नमन्ति । उपवनेषु मयूराः स्वपक्षान् प्रसार्य नृत्यन्ति । खगाः मधुरगीतानि गायन्ति । कोकिलानां तु अयमृतुः उत्सवः एव । यत्र तत्र आम्रवृक्षेषु कोकिलानां कुहुकुहू इति रवः श्रुतिगोचरो भवति । वनेषु, उपवनेषु च पादपेषु नानाविधानि नानावर्णानि च पुष्पाणि विकसन्ति । क्वचित् पलाशवृक्षेषु किशुककुसुमानि रक्तेन दिशः रञ्जयन्तीव, अन्यत्र च तड़ागेषु पङ्कजानां शोभा पथिकानां मनो हरति, क्वचित् पुनः कणकारपुष्पाणां पीताम्बरमिव प्रसृतं लक्ष्यते, कुन्दपुष्पाणां सुरभिः दूरतः एवं जनान् आकर्षति । सर्वत्र मन्दसमीरः सुगन्धयुतः वहति । उपवनेषु आम्रवृक्षेषु मञ्जर्यः विकसन्ति । भ्रमराः मधुरं गुञ्जन्ति । ते पुष्पेषु उपविश्य तेषां रसं पिबन्ति