CBSE BOARD XII, asked by NBSA, 1 year ago

write 10 lines about Gujarat in Sanskrit

Answers

Answered by Strawberry371
39
Hey there!!!!

1) गुजरातराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति ।

2) पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि पाकिस्थानदेशसीमा, राजस्थानराज्यञ्च, पूर्वदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि महाराष्ट्रराज्यं चास्ति ।

3) अस्य पश्चिमदिशायाः भागः, दक्षिणदिशायाः कश्चन भागश्च अरबीसमुद्रतटे अस्ति ।

4) दक्षिणदिशि केन्द्रशासितप्रदेशाः अपि सन्ति, यथा – दीव, दमण, दादरा, नगर हवेली इत्यादयः ।

5) प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं स्वेतिहास-परम्परा-संस्कृतिभिः सह गौरवेण स्थितमस्ति ।

6) भारतस्य लम्बतमः समुद्रतटविस्तारः गुजरातराज्ये एवास्ति ।

7) गुजरातराज्यस्य वायव्यदिशः विशालभागः कच्छप्रदेशान्तर्गतः अस्ति । अत्र भुज इति मुख्यनगरम् ।

8) अत्र कच्छसमुद्रकुक्षेः दक्षिणे गिरयः सन्ति |कच्छलघुमरुप्रदेशः पूर्वे, मरुप्रदेशश्च उत्तरेऽस्ति ।

9) मरुप्रदेशयोः विस्तारः २३,००० च.कि.मी. अस्ति ।

10) मरुभूमित्वात् क्षारयुक्तः प्रदेशः एषः । अतः अत्र कृषिः कूपजलेनैव भवति ।

Hope this helps you ............
Please mark as brainlist ^_^
Similar questions