Write a essay in sanskrit on india gate
Answers
Answered by
0
भारतद्वारं ( ( शृणु) /ˈbhɑːrətədvɑːrəm/) (हिन्दी: इण्डिया गेट, आङ्ग्ल: India Gate) भारतगणराज्यस्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् [१] । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः भारतस्यअज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्[२] । भारतस्य देहली-महानगरस्य नवदेहलीमण्डलेस्थितम् एतत् स्मारकं भारतस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति[१] ।
भौगोलिकस्थितिःसम्पाद्यताम्
भारतगणराज्यस्य देहली-महानगरस्य नवदेहलीमण्डलस्यनवदेहली-नगरस्य राजपथमार्गे भारतद्वारस्मारकं विद्यते । भारतद्वारं परितः स्थितः ६२५ षड्भुजव्यासभागेन (hexagon diameter) सह समीपस्थः ३,०६,००० च.कि.मी. भागः भारतद्वारस्य भागत्वेन परिगण्यते ।
इतिहासःसम्पाद्यताम्
पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् [२] । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं देहली-आग्रा-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् [३][४]। १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् लॉर्ड् इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।
परिकल्पनासम्पाद्यताम्

भारतद्वारे हुतात्मनां नामानि अङ्कितानि सन्ति ।
एड्विन् लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य स्थापत्यविभागस्य अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । राजस्थानराज्यस्य भरतपुरात्रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् प्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हति । परन्तु एतावता तस्य तैलपात्रस्य अतिस्वल्पः उपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति [१] ।
अमर जवान ज्योतिसम्पाद्यताम्
अमर जवान ज्योति (अमर सिपाहि लौ) इत्येव भारतद्वारस्य मुख्याकर्षणं, मुख्योद्देशः च [३] । भारतद्वारे प्रस्तरैः निर्मिता एका पीठिका अस्ति । तस्याः पीठिकायाः मध्यभागे कृष्णप्रस्तरेण निर्मितः पीठः विद्यते । तस्मिन् पीठे अशरीरिणां सैनिकानां स्मरणार्थम् अग्निशस्त्रं (rifle) स्थापितम् अस्ति । तस्मिन् अग्निशस्त्रे एकं शिरस्त्राणं विद्यते । कृष्णपीठं परितः समानान्तरे चत्वारः दीपकाः स्थापिताः सन्ति ।
अमर जवान ज्योति इत्यस्य रक्षणार्थं भारतीयसेनानाम् अनेकाः सैनिकाः २४/७, ३६५ दिनानि च तत्र सन्नद्धाः भवन्ति । प्रतिवर्षं कारगिलविजयदिवसे, प्रजासत्ताकदिने (२६ जनवरी) च भारतगणराज्यस्य प्रधानमन्त्री, तिसॄणां सेनानाम् अध्यक्षाः, भारतस्य गणमान्याः च अमर जवान ज्योति इत्यस्मै नमस्कारं कर्तुं भारतद्वारं गच्छन्ति [५] ।

Similar questions