write a short story in sanskrit
Answers
Answer:
सिंह-शशक-कथा - The Lion And The Rabbit
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम्? ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥
कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान् मृगशशकादीन् व्यापादयन्नोपरराम । अथान्वेद्यस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः -- स्वामिन् किमनेन सकलमृगवधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति, तक्रियतामस्माभिः सह समयधर्मः । अध्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेप्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनापि भविष्यति, अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोSनुष्ठीयताम् ।
अथ तेषां तद्वचनमाकर्ण्य भासुरक आह -- "अहो सत्यमभिहितम भवाद्भिः । करं यदि ममोपविष्टस्यात्र नित्यमेव नैकेको मृगः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि" ।
अथ ते तथेति प्रतिज्ञाय निवृतिभाजस्त्रव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं जातिक्रमेण वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा तेषां नध्यात्तस्य भोजनार्थ मध्याह्नसमये उपतिष्ठति ।
अथ कदाचि़ज्जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगप्रेरितोSनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदयेन चिन्तितम् यद् -- भव्य उपायोSस्ति । अहं भासुरकं प्रकोप्य स्वबुद्धयाSस्मिन्कूपे पातयिष्यामि ।
अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोsपि वेलातिक्रमेण क्षुत्क्षामकण्ठः ।
कोपाविष्टः सक्कणी परिलिहन्नचिन्तयत् -- अहो प्रातराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याSग्रे स्थितः ।
अथ तं लतात्मा भासुरको भर्त्यन्नाह -- "रे शशकाधम ! एकस्ताव्रत्त्व लघुः प्राप्तः अपरतो वेलातिक्रमेण । तदस्मादपराधात् त्वां निपात्य, प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि ।"
अथ शशकः सविनयं प्रोवाच --" स्वामिन् ! नापराधो मम, न चान्यमृगाणाम् । तच्छ्रूयतां कारणम् ।"
सिंह आह -- "सत्वरं निवेदय, यावन्मम् दंष्टान्तर्गतो न भवान्भवति" इति ।
शशक आह -- "स्वामिन् समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय, ततोSहं पञ्चशशकैः समं प्रेषितः । ततमाश्चाहमागच्छन्नन्तराले महता केनचिदपरेण सिंहेन क्षितिविवरान्निर्गत्याभिहितः --" रे ! कः प्रस्थिता यूयम् अभीष्टदेवतां स्मरत ।
ततो मयाभिहितम् -- "वयं स्वामिनो भासुरकसिंहस्य सकाशमाहारार्थ समयधर्मेण गच्छामः " ।
ततस्तेनाभिहितम् -- "यद्येवं तविं मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोSत्र राजा ततो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्, येन यः कश्चिदावयोर्मध्यापराक्रमेण राजा भविष्यति" इति ।
ततोSहं तेनादिष्टः स्वामिसकाशमभयागतः । ऐतद्वलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा भासुरक आह - "भद्र! यद्येवं , तत्सत्वरं दर्शय मे तं चौरसिंहं, येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि ।" उक्तञ्च
भूमिमित्रं हिरण्यम च विग्रहस्य फलत्रयम् ।
नास्त्येकमपि यद्येषां न त कुर्यात्छञ्चन ॥
यत्र न स्यात्फलं भूरि यत्र न स्यात्पराभवः ।
म तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥
शशक आह --" स्वामिन् सत्यमिदम् । सवभूमिहितोः परिभवाच्च युद्धयन्ते क्षत्क्षियाः । परं स दुर्गाश्रयः , दुर्गान्निष्क्रम्य वयंतेन विषकम्भिताः । तो दुर्गस्थो दुःसाध्यो भवति रिपुः ।"
भासुरक आह -- "भोः ! किं तवानेन व्यापारेण ? दर्शय मे तं दुर्गस्थमपि ।"
शशक आह -- "यद्येवं तर्ह्यागच्छतु स्वामी ।" एवमुक्त्वाSग्रे व्यवस्थितः । ततश्च तेनाSSगच्छता यः कूपो दृष्टोSभूत्तमेव कूपमासाद्य भासुरकमाह -- "स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोSपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ, येन दर्शयामि" इति ।
Explanation:
काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।
शिष्य वदति
आचार्य। विद्याभ्यासार्थम् अहम् आगतः।
पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति
वत्स। देवः कुत्र अस्ति।
शिष्यः वदति
गुरो। देवः कुत्र नास्ति। कृपया भवान् एव समाधानं वदतु।
सन्तुष्टः गुरुः वदति
देवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वं बुद्धिमान्। अतः विद्याभ्यासार्थम् अत्रैव वस।
(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के प्रथम भाग में से लिया गया है)