Write ten lines about swami dayanad saraswati in sanskrit
Answers
Answer:
महर्षि दयानन्द: यदा मानवाः धर्मस्य तत्त्वं सर्वथा विस्मृत्य बाह्याडम्बरमेव धर्म स्वीकत मारभन्ते तदा समाजे कस्यचित् समाजसुधारकस्य आवश्यकता भवति । हिन्दुसमाजस्याऽपि एकोनविशशताब्द्या अन्तिमे भागे एतादृशी एव अवस्था असीत् । तत्र अनेकशः आडम्बराणि आगतानि आसन् । तान्येव च सामाजिकः अज्ञानवशात् धर्मत्वेन स्वीकृतान्यभवन । अपरश्च देशे ‘क्रिश्चियन’ -धर्मस्य महान प्रचारोऽप्यासीत् । एवंविधं भयावहे काले एतादशस्य कस्यचित् महापुरुषस्य अावश्यकता आसीत् यः समाजे क्रिश्चियन-धर्मस्य प्रचारमवरुध्य सामाजिकान् धर्मस्य वास्तविक रूपं प्रदर्शयेत् । ईदृशे काले काठियावाड़प्रान्ते एकस्य निर्धनब्राह्मणस्य गृहे स्वामिनः दयानन्दस्य जन्म अभवत् । स च बाल्यकाले एव संन्यास गहीतवान् । ततश्य स कञ्चित्कालमितस्तत: पर्यटन् अनूपनगरे स्वामिनः विरजानन्दस्य पाश्र्व आगतवान् । स्वामी विरजानन्दस्तं समस्तं वैदिक वाङ्मयमध्यापितवान् । महर्षि दयानन्दश्च समाजाद् अज्ञानतिमिरान्धत्वं दूरीकृत्यं ज्ञानं प्रकाशयितु प्रतिज्ञातवान् ।
ततश्च स भारते विभिन्नतीर्थषु अन्येषु च पवित्रस्थानेषु परिभ्रम्य वैदिकधर्मस्य प्रचारं कृतवान्, हिन्दुसंस्कृते: वास्तविक स्वरूपं च समाज प्रदशितवान् । अज्ञानम् अन्धविश्वास म्, अविद्या, दुराचारं, पाखण्ड कुप्रथादिकं च समाजात् समुन्मूल्य स ज्ञान प्रसारयितुमारभत । एतन्निमित च स सर्व प्रथमं बम्बईनगरे आर्य समाज स्थापितवान् एतदनन्तरं च अन्येषु अपि महत्सु नगरेषु अर्यसमाजस्य स्थापना अभवत् । अद्य तु प्रायः समस्ते एब भारते विभिन्ननगरेषु ग्रामेषु चापि आर्यसमाजसंस्थाः दृश्यन्ते यत्र सामाजिका: अहर्निशं वैदिकधर्मस्य प्रचारं कुर्वन्ति । ततश्च स भारते विभिन्नतीर्थषु अन्येषु च पवित्रस्थानेषु परिभ्रम्य वैदिकधर्मस्य प्रचारं कृतवान्, हिन्दुसंस्कृते: वास्तविक स्वरूपं च समाज प्रदशितवान् ।