India Languages, asked by keepdeepalways1977, 9 months ago

Yadi surya na bhavati tarhi Kim bhavishayati chintayat

Answers

Answered by 2105rajraunit
2

यदि सूर्यः नास्ति तर्हि अत्र जीवितमेव अशक्यं भवति। सूर्यदेवः प्रत्यक्षविष्णुरिति भावयन्ति जनाः। सूर्यस्य ऊर्जः सर्वत्र प्रसारितः तस्मादेव अस्माभिः जीवनोर्जं प्राप्यते। सूर्यस्य स्थानम् इतोऽपि भूमेः समीपं भवतिचेदत्र सर्वं तापेन भस्मं भविष्यति । यदि सो दूरे तिष्ठति चेदपि अतिशैत्येन जीवनमसाध्यं भविष्यतीति वयं जानीमः। तरुसस्यलतादयः आदित्यात् एव अन्नं पचन्ति। तेन कारणेन इतरजीविनः अत्र वसन्ति इति स्पष्टमेव। सौरयूथस्य केन्द्रः सूर्यः। सर्वे ग्रहाः तम् आधारीकृत्य एव भ्रमन्ति । समयासमयं ऋतुपरिवर्तनं सम्भवति सूर्यस्य प्रभावेण। एतानि सर्वाणि कार्याणि परस्परपूरकानि। एवं भहुकार्यैः अत्र जीवस्य परिपालनं क्रियमाणः अस्ति भास्करः। पूर्विकानां मतानुसारम् आदित्य नमस्कारं ये कुर्वन्ति तेषां पापानि नश्यन्ति। सूर्येपासना अधुनापि लोके बहुत्र अस्ति। सूर्यनमस्कारः योगाभ्यासस्य प्रमुखः भागः। अतः प्रतिदिनं तं सूर्यनारायणं नमाम्यहम्।।

I hope that it will be helpful to you.

Similar questions