1. धर्मो जयति नाधर्मः, सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो, देवो जयति नासुरः ।। प्रथमा ।।
2. वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ।। द्वितीया ।।
3. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।। तृतीया ।।
4. विद्या विवादाय धनं मदाय
खलस्य शक्तिः परपीडनाय ।
साधोस्तु सर्वं विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय ।। चतुर्थी ।।
5. तैलाद्रक्षेद् जलाद्रक्षेद् रक्षेत् शिथिलबन्धनात् ।
मूर्खहस्ते न दातव्यम् एवं वदति पुस्तकम् ।। पञ्चमी । |
6. नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ।। षष्ठी।।
7. व्यसने मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये भृत्यपरीक्षा दानपरीक्षा च दुर्भिक्षे ।। सप्तमी ।।
8. आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।। सम्बोधनम्।।
9. रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।।
Can anyone tell all paras meaning in marathi please
I will mark brainlist answer
Answers
Answered by
1
help u
...............................
Attachments:
Similar questions
Math,
3 months ago
Physics,
3 months ago
Accountancy,
7 months ago
Economy,
7 months ago
History,
11 months ago