Hindi, asked by dominicabian0908, 1 month ago

2. Evaluate the shift in chocolate sales based on benefits and costs that customers perceive.

Answers

Answered by Adi935
0

तृतीयः शोधलेखः 'काव्यविषये जिनसेनाचार्यस्य गम्भीराः विचाराः' इति ।

अहिंसायाः परां काष्ठां प्रतिपादयत् जैनशास्त्रं कर्णाटके स्वीयपरम्परायाः लब्धप्रतिष्ठम्

इति तु तोषनिदानम् । सर्वेषां विचारपराणां ग्रन्थकर्तृणाम् उपजीव्यभूता इयं

कर्णाटकभूः इति सामोदम् उल्लिखामहे । पञ्चास्तिकायसमयप्राभृतप्रभृतिप्रबन्धप्रणेता

कुन्दकुन्दाचार्यः कर्णाटकप्रान्तीयः ।

अयं जिनसेनाचार्यः अपि कर्णाटकप्रान्ते एव लब्धजन्मा कृतिरत्नप्रणयनेन

लब्धप्रतिष्ठश्च । प्रायः कवयः सुन्दरस्त्रीणां प्रकृतिकोमलाङ्गोपाङ्गवर्णने एव बद्धादराः,

न आध्यात्मिके विषये प्रसारयन्ति मनः । अतः एव उक्तं - 'सद्यः परनिर्वृतये'

इति । आध्यात्मिकतत्त्वानि एव काव्ये संयोजयितुं शक्यानि अथ च तत्त्वधर्मादिविषयान्

अपहाय यं कमपि राजानं, स्वोपजीव्यं वा स्तुवत् काव्यं न वीतरागाणां विवेकिनां

मोदाय कल्पते इति निश्चप्रचम् । इयं च कविदृष्टिः नागराजरामहोदयेन स्फुटं|

प्रकाशिता स्वनिबन्धे । इयं दृष्टिः प्राचीनतमे श्रीमद्भागवते स्फुटं दृश्यते । यथा

न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं न गृणीत कर्हिचित् ।

तद् वायसं तीर्थमुशन्ति मानसा न यत्र हंसा न्यपतन् मिमङ्ख्या ।।

(भाग - १.५.२०)

तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ।

तदेव शोकार्णवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ।।

(भाग - १२.१२.४८)

समजस्तु भवति पशुसमुदायः, समाजस्तु बुद्धिमतां समुदायः इति सार्वजनीनम्

| एतत् । यद्यपि 'निश्शेषच्युतचन्दनम्' इत्यादिना कुलटारतिवर्णनमेव उत्तमं ध्वनिकाव्यम्

इति मन्यन्ते केचन पण्डितम्मन्याः । तथापि एतादृशरतिवर्णनेन समाजे कः

आदर्शः अनुकरणीयः गुणो वा प्रतिपादितो भवेत् ? समाजे सर्वत्र रागादिदोष-

कालुष्येण या विषयाभिमुखी दृष्टिः भवति सा कविना शास्त्रिणा वा दूरम्

उत्सारयितव्या । सैव विषयविषव्याकुला भावना परस्परपीडनाय, दुःखाय, विनाशाय

|च भवतीति नातीव प्रतिपादनीयम् । अतः सूर्यादृष्टमपि प्रमेयजातं पश्यतां

| विपश्चिदपश्चिमानां कवीनां समाजे नैतिकधार्मिकतत्त्वप्रसारणदृष्टिः आवश्यकी

इति जिनसेनाचार्योक्तं न मनाङ् विस्मरणम् अर्हति -

केचिन्मिथ्यादृशः काव्यं ग्रन्थन्ति श्रुतिपेशलम् ।

तत्त्वधर्मानुबन्धित्वात् न सतां प्रीणनक्षमम् ।। इति ।

महापुरुषसम्बन्धि महानायकगोचरम् ।

त्रिवर्गफलसन्दर्भ महाकाव्यं तदिष्यते ।। इति च ।

यद्यपि नैतिकनियमाः नैव पालनीयाः, स्वेच्छाचारः क्षणिकं सुखं च उपादेयम्।

इति समर्थयतां काले तादृशान् एव विचारान् उपादाय समाज बाधयन्तः कव(प?)यः

Similar questions