World Languages, asked by mahimarupa9218, 1 year ago

.5 points on swachh bharat in sanskrit





Answers

Answered by Prativa2003
3
वर्तमानभारतदेशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति। सः देशः चन्द्रयानं निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति। यत्र कुत्रापि अवकरं प्रक्षिपन्ति। ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं)। एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति। वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति। वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति। तेन अनेकाः समस्याः समुत्पद्यन्ते। बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां बलात्कारस्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति  तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता। उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत्। परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन्।

२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के महात्मनः १५० तमा जन्मजयन्ती अस्ति। यतो हि महात्मनः प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत्। अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने महात्मना ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते। एतत् अभियानं पञ्चवर्षात्मकम् अस्ति। स्वच्छभारताभियानं भारतगणराज्यस्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति। एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् [
Answered by sanikapatil2152003
0
स्वच्छ भारत अभियान, आङ्ग्ल: Swachh Bharat Abhiyan) इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् [१]। २०१४ तमस्य वर्षस्य ऑक्टोबर - मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत्। २/१० दिनाङ्के भारतगणराज्यस्यपूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते। तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् [२]।
Similar questions