India Languages, asked by rajawaseemkiani9447, 8 months ago

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?

Answers

Answered by coolthakursaini36
56

"अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?

उत्तरम्-> अत्र जीवनं दुर्वहं जातम् अस्मात् कारणात् कवि: प्रकृतेः शरणम् इच्छति|

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

उत्तरम्-> यन्त्राधिक्येन प्रवर्धितप्रदूषणस्य कारणात् महानगरेषु संसरणं कठिनं वर्तते|

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?

उत्तरम्-> अस्माकं पर्यावरणे जलं, वायु:, खाद्यपदार्थ: दूषितम् अस्ति|

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

उत्तरम्-> कवि: नदी-निर्झरं वृक्षसमूहं लताकुञ्जं पक्षिकुलकलरवकूजितं वनप्रदेशे सञ्चरणं कर्तुम् इच्छति|

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?

उत्तरम्-> स्वस्थजीवनाय प्रदूषणरहितं वातावरणे भ्रमणीयम्|

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?

उत्तरम्-> अन्तिमे पद्यांशे कवेः मानवाय जीवनस्य कामना अस्ति| "

Similar questions