अधोलिखितेषु कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखत (क) यमकम्
(ख) उपमा
(ग) अर्थान्तरन्यासः
Answers
Answer:
लक्षणम्: सत्यर्थे पृथगर्थायाः स्वरव्यञ्जन संहतेः।
क्रमेणतेनैवावृत्तिर्यक विनिगद्यते।। यत्र सार्थकयोः परन्तु परस्परं भिन्नार्थयो: द्वयोः वर्ण संघातयोः क्रमेण आवृत्तिः तत्र यमकालङ्कारः जायते। उदाहरणम् नवपलाश पलाशवनं पुरः,
स्फुटपराग परागतपङ्कजम्।
मृदुलतान्तलतान्तमलोऽकयत्,
से सुरभि सुरभि सुमुनोभरैः।।
अत्र प्रथमपादे पलाशद्वयस्य अर्थद्वयमस्ति-पत्रम्, पलाशवृक्षश्च । एवमेव चतुषुपदेषु पदद्वयस्य अर्थद्वयमस्ति। अत: अत्र यमकालंकारः जायते ।।
(ख) उपमा
लक्षणम्प्र: स्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते । यत्र उपमानोपमेययोः स्पष्टं सुन्दरं च सादृश्यं भवति तत्र उपमा अलङ्कारः अभिधीयते। उदाहरणम्-हंसीव कृष्ण! ते कीर्तिः स्वर्गङ्गावगाहते । अत्र उपमेयः कीर्तिः उपमानः च हंसी, साधारणधर्मः ‘स्वर्गङ्गावगाहते’ वाचक शब्दः-इव। अतः अत्र चतुर्णाम् उपमावयवानां विद्यमानत्वात् पूर्णोपमा विद्यते।
(ग) अर्थान्तरन्यासः
लक्षणम्: सामान्यं वा विशेषो वा तदन्येन समय॑ते ।
यत्र सोऽर्थान्तरन्यासः साधणेतरेण वा। यत्र साधर्मेण वैधयॆण वा सामान्यस्य विशेषेण विशेषष्य सामान्येन वा समर्थ्यते तत्र अर्थान्तरन्यासोऽलङ्कारः स्यात् । उदाहरणम्- वृहत्सहाय्यः कार्यान्तं क्षोदीयानपि गच्छति।
सम्भूयाम्भोधिमभ्येति महानद्याः नगापगा।। अत्र पूर्वार्द्धगत: सामान्योऽर्थः-‘वृहत्सहाय्यः क्षोदीयानपि कार्यान्तं गच्छति’ इति, द्वितीयार्थगतेन विशेषेण अर्थेन-‘नगापगाः
महानद्या सम्भूय अम्भोधिय् अभ्येति ‘समर्थ्यते’, अतः अत्र अर्थान्तरन्यासोऽलङ्कारः।
Explanation:
hope it helps u dear......pls follow me