Social Sciences, asked by jitenbangthai123, 3 months ago

eassy on diwali in sanskrit​

Answers

Answered by Sameeksha7
3

Explanation:

अस्माकं भारतवर्षे प्रतिवर्ष बहूनि पर्वाणि मान्यन्ते । तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति । इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन् । जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत् । दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति । जनाः मालाभिः , विद्युत्दीपैः , मृतिकादीपैः च गृहाणि , मन्दिराणि राजमार्गणि , आपणानि च अलंकृतानि कुर्वन्ति । जनाः रात्रौ लक्ष्मी – गणेशस्य च पूजनं कुर्वन्ति । मिष्ठान्नानि च खादन्ति । बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति । दीपावलिः पावनतायाः , उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य , भेदभावस्य , घृणायाः च अन्धकारं नाश्याम । अयं अस्य पर्वस्य संदेशः अस्ति ।

Answered by swatiyadav10
2

Answer:

see attachment......

Attachments:
Similar questions