Hindi, asked by shubhangichaware252, 11 months ago

Essay in sanskrit about the Republic day..

Answers

Answered by ram36992
2
Here is your answer
अस्माकं देशः १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रम् अभवत् । परन्तु तदानीं अस्य किमपि स्वकीयं संविधानं न आसीत्। अतः डॉ राजेंद्रप्रसाद महोदयानाम् अध्यक्षतायां संविधाननिर्माणाय एकस्याः परिषदः स्थापना अभवत। यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः। अतः अयं दिवसः बहुमहत्वपूर्णः विद्यते। 


अस्मिन् दिवस सर्वासु शिक्षण-संस्थासु ध्वजोत्तोलनं भवति, विविधाः कार्यक्रमाः आयोज्यन्ते, राष्ट्रगानं गीयते, मिष्टान्नादीनां वितरणं च क्रियते। सर्वेषु अद्भुतः आनन्दः, उत्साहः, देशभक्तिश्च दृश्यते। अयं उत्सवः दिल्लीनगरे महता उल्लासेन हर्षेण च सह मान्यते। अस्मिन दिवसे राष्ट्रपतिः राष्ट्रस्य नाम्ना संदेशं प्रसारयति। अस्य उत्सवस्य सर्वेSपि कार्यक्रमाः रेडियो-दूरदर्शन-प्रभृतियन्त्राणां मध्यमेन समग्रेSपि देशे श्रव्यन्ते दर्श्यन्ते च। 

please mark me brainliest.
Answered by ankushkumar14043
0

Answer:

i hope it help you

Explanation:

खिस्तीयवर्षानुसारं जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते । अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः । पञ्चाशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे तस्मिन् . दिवसे ऽनेकशताब्दीपरतन्त्र्यानन्तर स्वतन्त्र भारतराष्ट्र गणतन्त्रमुद्घोषितं तस्य च स्वकीय संविधान स्वकीया च शासनप्रणाली तद्दिनात् प्रवृत्ते । एतदनन्तरमेव भारतेन पूर्णस्वातन्त्र्यं लब्धमिति कथयितुं शक्यते । तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते । अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति, राजकीयभवनानि च दीपमालाभिर्दीप्यन्ते, मेलकानि आयोज्यन्ते । अस्मिन् दिवसे विशिष्टः समारोहो राजधान्यां दिल्ल्यां समायोज्यते । प्रातरेव राष्ट्रपतिभवननिकटस्थे विजयचतुष्पथे विशिष्टे मञ्चे राष्ट्रपतिः भारतीयसेनायाः त्रिभ्य एव जलस्थलवायुसेनाङ्गेभ्यो ऽ भिवादनं स्वीकरोति । ततो ऽपि पूर्व राष्ट्रपतिः विशिष्टेभ्यः सैनिकेभ्यो विशेषोत्साहशौर्यकौशलप्रदर्शनार्थं पदकानि वितरति । सेनाङ्गः राष्ट्रपतेरभिवादनावसरे तेषां सेनाङ्गानां स्वोपकरणैः सार्क विजयचतुष्पथादारभ्य राजधान्याः प्रमुखराजमार्गेषु रक्तदुर्ग पर्यन्तं शोभायात्रा भवति । इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव. लोकयन्ति । इमामेव द्रष्टुं भारतस्था विविधदेशानां राजदूता अन्ये च विशिष्टा वैदेशिकातिथयोऽपि राजपथं समवयन्ति । सुमधुरसैनिकवाद्यसंगीतसंवलिता इयं शोभायात्रा सर्वेषां चेतांसि आन्दोलयति । अस्मिन्नेवावसरे आसेतुहिमाचलम् आद्वारिकाकामरूपं च निखिलभारतदेशस्य सांस्कृतिकी औद्योगिकी चापि शोभायात्रा भवति । वैविध्यमयं भारतीय लोकजीवनं तत्रैकत्रैव वयं द्रष्टुं पारयामः । प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति। अत एव महति शीते ऽपि आप्रत्यूषादेव जनाः स्वस्थानं गृह्णन्ति । सर्वं तत्र सुन्दरं सर्व शोभाढ्य भारतं नृत्यतीव पुरतः । प्राचीन वा नूतनं वा, निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् । अन्ते चाकाशे विमानैस्त्रिवण भारतीयध्वजो विशिष्टधुमोद्गमैनिर्मीयते यद्धि दृष्ट्वा जनाश्चकितचकिता इव भवन्ति । रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति ।

 

अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्घोपयति । अयं दिवसो ऽस्मान भवन भारतीयान् भेदभावान् विस्मृत्य एकभावेन राष्ट्ररक्षार्थ राष्ट्रसेवार्थं च प्रेरयति । अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।

जनगणहृदयानां नित्यमाह्लादकारी

सकलबुधविकासो दु:खिपीडापहर्ता ।

प्रतिदिनमपि नानायोजनाभिः समृद्धो

भवतु भुवि यशस्यो देश एष स्वतन्त्रः ।।

Similar questions