India Languages, asked by Ks1255119u, 1 year ago

essay on apj abdul kalam in sanskrit​

Answers

Answered by subham322669
10

Explanation:

सः देशस्य एकः योग्यः पुत्रः अस्ति। कलामस्य जन्म ख्रीष्टीये १५ अक्टूबर, १९३१ मिते दिवसे अभवत्। तस्य पिता जइनुलावद्दीनः विवेकवान् उदारः अथितिपरायणः, माता आशिअम्मा सुगृहिणी स्नेहमयी च। तस्य त्रयौ भ्रातरः एकैव भगिनी। विज्ञानविषयं प्रति प्रगाढ़ानुरागः यंत्रविद्यापठनाय तम् प्रेरयत्। मद्रास-वैषयिकप्रतिष्ठाने अध्येतुं स योग्यः विवेचितः अभवत्। कलामः एकः प्रसिद्धः वैज्ञानिकः आसीत्। तस्य नेतृत्वेन निर्मितानि पृथिवी, त्रिशूलम्, आकाशः, नागश्चेति क्षेपणास्त्राणि भारतस्य सुरक्षाव्यवस्थां दृढयन्ति। 2002 तमे वर्षस्य जुलाई मासस्य तमे दिने डॉ कलामः 90% बहुमतेन भारतस्य राष्ट्रपति अभवत्। सः भारतस्य एकादशः राष्ट्रपतिः आसीत्। कलामे बहुसुगुणाः सन्ति, न लेशोअपी दुर्गुणस्य दुरभ्यासस्य च। विज्ञानस्य ईश्वरविश्वासस्य च समन्वयः तस्मिन् दृश्यते। आजीवानं ब्रह्मचारी शाकाहारी कलामः राष्ट्रसेवानिमित्तं स्वजीवनं समर्पयन् अस्माकं आदर्शमहापुरुषः भवति। 27 जुलाई 2015 तमे वर्षे अयं दिव्यपुरुषः पंचतत्वं गतः।

Answered by VishwajeetBhailume
2

Answer:

that is your answer that I have

Attachments:
Similar questions