Essay on Himalayas in language Sanskrit
Answers
Answered by
107
हिमालयः एकः पर्वतः अस्ति। अयं पर्वतेषु महान् पर्वतः अस्ति। अत एव अयं पर्वतराज उच्यते। अस्मिन् पर्वते हिमस्य अधिकता अस्ति। तेन अस्य हिमालय इति नाम अस्ति। अयं पर्वतः उत्तरदिशायाम् अस्ति। अस्य अनेकानि शिखराणि अतीव उच्चतमानि सन्ति। अस्य गौरीशंकरनामाकं शिखरं संसारस्य सर्वेषु शिखरेषु उच्चतमं मन्यते। अयं पर्वतः भारतस्य उत्तर्दिशाया: महाबलवान् प्रहरी अस्ति। अत्र नानाविधा वनस्पतयः विविधानि फलानि तथा नानाप्रकारणि खाद्यवस्तूनि च उपलभ्यते। अस्मिन् पर्वते अनेकानि तीर्थस्थानानि च सन्ति। बहूनां मुनीनां तपोवनानि विद्यन्ते। अत एव संस्कृतग्रंथेषु हिमालयस्य अतीव महत्वपूर्ण वर्णनं मिलति।
Answered by
46
उत्तर -> “हिमालय: पर्वत:”
हिमालय: पर्वत: भारतस्य उत्तरस्यां दिशि स्थितोऽस्ति | हिमालय: अर्थात् हिमस्य आलय:| पर्वते अस्मिन् हिमस्य अधिकतया अस्य पर्वतस्य नाम: हिमालय: अभवत्| अयं पर्वत: सर्वेषु पर्वतेषु विशाल: अस्मात् कारणात् अयं पर्वतराज: इति कथयन्ते|
पर्वतोsयं उत्तरस्यां दिशि शत्रुभि: भारतस्य रक्षां करोति| हिमालय: भारतस्य मुकुट: अस्ति| अस्य पर्वतस्य धार्मिकं महत्वं सर्वे जानन्ति| अनेका: ऋषि-मुनय: अत्र तपस्यां अकुर्वन्| अस्य वर्णनं अनेकेषु संस्कृतसाहित्येषु मिलति|
हिमालय: पर्वत: जीवनदायक: अत्र अनेका: नद्या: प्रवहन्ति| अत्र अनेका: जीवनदायिनी औषधय: मिलन्ति|
Similar questions