essay on rain in Sanskrit
Answers
Answer:
वर्षा-ऋतौ आकाशो मेघेः आच्छन्नो भवति । वर्षाकाले वर्षन् देवो नटराज इव भाति । अस्य प्रत्येकमङ्गे अभिनये च विद्युत इव चापल्यम् अस्ति । यदा चायं दिशि दिशि असंख्यैः पादैः धावति कुर्दति च तदा धरा रोदितीव । तस्याः अधुभिः अनेकाः वक्राः धारा: वहन्ति । परस्परं च मिलित्वा ताः नदीतडागादीनां प्रवाहं विशन्ति । पर्वतेभ्यः समतलं प्रति धावन्तीनां गत्या तासां प्रियमेलनाकुलता स्पष्टव । देवे वेगेन वर्षति ता उन्मत्ताः इव शिलासु पतन्ति, पथि धूलि वृक्षपत्राणि च संहरन्ति, वृक्षान् परिक्रान्ति। सां बाहुल्येन नदीकासारतडागादयः सर्वे जलाशयाः सम्पूरिताः ।
बहवश्च स्वतटमुल्लंघ्य बहिर्भूमौ वहन्ति । यद्यपि मनुष्येण अनेकेषु स्थलेषु नियन्त्रितो जलप्रवाहः तथापि तेन प्रतिवर्ष जनक्षतिर्भवति, ग्रामा ध्वस्यन्ते अन्नस्य च नाशो भवति । वर्षा-ऋतौ प्राकृतिक दृश्यम् अतीव रमणीयम् भवति । प्रकृत्याः दिगन्तव्यापिनी श्यामलता सर्वेषां मनस्सु आह्लादं सिञ्चति । अस्मिन् ऋतौ प्रकृतिनटी विविधरूपाणि धारयति, कदाचित् विद्युतः विस्फुरन्ति कदाचित् झञ्झावातः वाति, कदाचित् इन्द्रधनुषः विविधवर्णा शोभा दृश्यते । गाढे तमसि दीव्यन्त्या तडिता कृष्णपट्टे बालचित्रकारेणेव निरर्थका रेखाः खचिताः याः क्षणे एवान्तर्धानं गच्छन्ति ।
वर्षाकाले रवेः सुवर्णपिण्डस्य दर्शनं दुर्लभम् एव । स महातेजोराशिः क्षितिजपाश्र्वाद् वर्धमानैः भीषणश्यामघनैः आच्छादितो भवति । तदा नीले नभसि घोरान्धकारेण जगदिदं दिनेऽपि रजनीतमः धारयति । क्षणपूर्वं यत्रातपो दृश्यते तत्रैव अपरस्मिन् क्षणे सघनघनघटाभिः सर्वं तमोनिगूढमिव भवति सतडिद्गर्जनं च मेघो वर्षति । वृष्टेः पूर्वं मयूराश्च नर्तकीव मुदितचेतसः ताभिः घटाभिः मेघस्य गर्जनेन च मृदङ्गनादेनेव पक्षान् प्रसार्य नृत्यन्ति। सर्वे कोटरान्तरस्थिताः खगाः बहिनिष्क्रय विहरन्ति । शिशुगणाः निश्चिन्ताः उद्यानेषु क्रीडन्ति । मन्दः पवनो वृक्षान् समीरयति । कापि हृदयहारिणी शोभा। परं यदैव वृष्टिरारभते, खगाः नीडान् प्रत्यागच्छन्ति, गावश्य जलकणेभ्यः आत्मरक्षार्थं स्थानं किमपि धावन्ति । इमे कणाः कृषकाणाम् तु अमृतमेव यभूमौ पतित्वा मृत्तिकायाः रत्नानि उत्पादयति, यैः सर्वाणि भूतानि जीवन्ति ।
वर्षामनु प्रदोषसमये छिन्नभिन्नमेधाः कमप्यज्ञातप्रदेश गच्छन्ति विमलाकाशे चेन्द्रधनुः व्योम्नः पृथिव्याश्चाति दूरस्थिते द्वे स्थाने योजयति । तस्य दिव्यज्योतिः दृष्टये सुख प्रददाति । बृष्टिविरामं ज्ञात्वा सर्वे पक्षिगणाः स्वैर नीडेभ्यः निर्गत्य भूयो नभसि विचरन्ति मधुरं कलरवं च कुर्वन्ति । तडागकूपादिषु मण्डूकानां “टर्रटर्र’ इति ध्वनिः सर्वत्र श्रूयते । श्रावणमासे स्थितोऽयं ऋतुः भारतीयकृषकाणां जीवनम् । पुरा तेषां श्रमफलमस्यैव ऋतोः प्रसादेन भवति । यतस्तदा सर्वे कृषीवलाः बद्धाञ्जलयो वृष्टिर्भवेदिति देवं प्रार्थयन्ते स्म । परमधुना तु विज्ञानस्य उन्नत्या नदीनाम् जलं यथेप्सितं सेचनार्थं योज्यते ।